Mantra 1
बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्ग॒: सह॑सो॒ यतो॒ जनि॑। यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिर्ऋ॒तस्य॒ धेना॑ अनयन्त स॒स्रुत॑: ॥
बट् । इ॒त्था । तत् । वपु॑षे । धा॒यि॒ । द॒र्श॒तम् । दे॒वस्य॑ । भर्गः॑ । सह॑सः । यतः॑ । जनि॑ । यत् । ई॒म् । उप॑ । ह्वर॑ते । साध॑ते । म॒तिः । ऋ॒तस्य॑ । धेनाः॑ । अ॒न॒य॒न्त॒ । स॒ऽस्रुतः॑ ॥
Mantra 2
पृ॒क्षो वपु॑: पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑। तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ॥
पृ॒क्षः । वपुः॑ । पि॒तु॒ऽमान् । नित्यः॑ । आ । श॒ये॒ । द्वि॒तीय॑म् । आ । स॒प्तऽशि॑वासु । मा॒तृषु॑ । तृ॒तीय॑म् । अ॒स्य॒ । वृ॒ष॒भस्य॑ । दो॒हसे॑ । दश॑ऽप्रमतिम् । ज॒न॒य॒न्त॒ । योष॑णः ॥
Mantra 3
निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नास॒: शव॑सा॒ क्रन्त॑ सू॒रय॑:। यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥
निः । यत् । ई॒म् । बु॒ध्नात् । म॒हि॒षस्य॑ । वर्प॑सः । ई॒शा॒नासः॑ । शव॑सा । क्रन्त॑ । सू॒रयः॑ । यत् । ई॒म् । अनु॑ । प्र॒ऽदिवः॑ । मध्वः॑ । आ॒ऽध॒वे । गुहा॑ । सन्त॑म् । मा॒त॒रिश्वा॑ । म॒था॒यति॑ ॥
Mantra 4
प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति। उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचि॑: ॥
प्र । यत् । पि॒तुः । प॒र॒मात् । नी॒यते॑ । परि॑ । आ । पृ॒क्षुधः॑ । वी॒रुधः॑ । दम्ऽसु॑ । रो॒ह॒ति॒ । उ॒भा । यत् । अ॒स्य॒ । ज॒नुष॑म् । यत् । इन्व॑तः । आत् । इत् । यवि॑ष्ठः । अ॒भ॒व॒त् । घृ॒णा । शुचिः॑ ॥
Mantra 5
आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे। अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥
आत् । इत् । मा॒तॄः । आ । अ॒वि॒श॒त् । यासु॑ । आ । शुचिः॑ । अहिं॑स्यमानः । उ॒र्वि॒या । वि । व॒वृ॒धे॒ । अनु॑ । यत् । पूर्वा॑ । अरु॑हत् । स॒ना॒ऽजुवः॑ । नि । नव्य॑सीषु । अव॑रासु । धा॒व॒ते॒ ॥
Mantra 6
आदिद्धोता॑रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते। दे॒वान्यत्क्रत्वा॑ म॒ज्मना॑ पुरुष्टु॒तो मर्तं॒ शंसं॑ वि॒श्वधा॒ वेति॒ धाय॑से ॥
आत् । इत् । होता॑रम् । वृ॒ण॒ते॒ । दिवि॑ष्टिषु । भग॑म्ऽइव । प॒पृ॒चा॒नासः॑ । ऋ॒ञ्ज॒ते॒ । दे॒वान् । यत् । क्रत्वा॑ । म॒ज्मना॑ । पु॒रु॒ऽस्तु॒तः । मर्त॑म् । शंस॑म् । वि॒श्वधा॑ । वेति॑ । धाय॑से ॥
Mantra 7
वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः। तस्य॒ पत्म॑न्द॒क्षुष॑: कृ॒ष्णजं॑हस॒: शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥
वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः । तस्य॑ । पत्म॑न् । द॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥
Mantra 8
रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे॑भिररु॒षेभि॑रीयते। आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रय॒: शूर॑स्येव त्वे॒षथा॑दीषते॒ वय॑: ॥
रथः॑ । न । या॒तः । शिक्व॑ऽभिः । कृ॒तः । द्याम् । अङ्गे॑भिः । अ॒रु॒षेभिः॑ । ई॒य॒ते॒ । आत् । अ॒स्य॒ । ते । कृ॒ष्णासः॑ । ध॒क्षि॒ । सू॒रयः॑ । शूर॑स्यऽइव । त्वे॒षथा॑त् । ई॒ष॒ते॒ । वयः॑ ॥
Mantra 9
त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः। यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥
त्वया॑ । हि । अ॒ग्ने॒ । वरु॑णः । धृ॒तऽव्र॑तः । मि॒त्रः । शा॒श॒द्रे । अ॒र्य॒मा । सु॒ऽदान॑वः । यत् । सी॒म् । अनु॑ । क्रतु॑ना । वि॒श्वऽथा॑ । वि॒ऽभुः । अ॒रान् । न । ने॒मिः । प॒रि॒ऽभूः । अजा॑यथाः ॥
Mantra 10
त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि। तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥
त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । रत्न॑म् । य॒वि॒ष्ठ॒ । दे॒वता॑तिम् । इ॒न्व॒सि॒ । त्वम् । त्वा॒ । नु । नव्य॑म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग॑म् । न । का॒रे । म॒हि॒ऽर॒त्न॒ । धी॒म॒हि॒ ॥
Mantra 11
अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम्। र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतु॑: ॥
अ॒स्मे इति॑ । र॒यिम् । न । सु॒ऽअर्थ॑म् । दमू॑नसम् । भग॑न् । दक्ष॑म् । न । प॒पृ॒चा॒सि॒ । ध॒र्ण॒सिम् । र॒श्मीन्ऽइ॑व । यः । यम॑ति । जन्म॑नी॒ इति॑ । उ॒भे इति॑ । दे॒वाना॑म् । शंस॑म् । ऋ॒ते । आ । च॒ । सु॒ऽक्रतुः॑ ॥
Mantra 12
उ॒त न॑: सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः। स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥
उ॒त । नः॒ । सु॒ऽद्योत्मा॑ । जी॒रअ॑श्वः । होता॑ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्रऽर॑थः । सः । नः॒ । ने॒ष॒त् । नेष॑ऽतमैः । अमू॑रः । अ॒ग्निः । वा॒मम् । सु॒ऽवि॒तम् । वस्यः॑ । अच्छ॑ ॥
Mantra 13
अस्ता॑व्य॒ग्निः शिमी॑वद्भिर॒र्कैः साम्रा॑ज्याय प्रत॒रं दधा॑नः। अ॒मी च॒ ये म॒घवा॑नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ॥
अस्ता॑वि । अ॒ग्निः । शिमी॑वत्ऽभिः । अ॒र्कैः । साम्रा॑ज्याय । प्रऽत॒रम् । दधा॑नः । अ॒मी । च॒ । ये । म॒घवा॑नः । व॒यम् । च॒ । मिह॑म् । न । सूरः॑ । अति॑ । निः । त॒न्युः॒ ॥