Mantra with Swara
यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यव॒: क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे। तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे। अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥
यस्य॑ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः॑ । क्रत्वा॑ । चि॒त् । सन्तः॑ । अव॑सा । बु॒भु॒ज्रि॒रे । इति॑ । क्रत्वा॑ । बु॒भु॒ज्रि॒रे । ताम् । अनु॑ । त्वा॒ । नवी॑यसीम् । नि॒ऽयुत॑म् । रा॒यः । ई॒म॒हे॒ । अहे॑ळमानः । उ॒रु॒ऽशं॒स॒ । सरी॑ । भ॒व॒ । वाजे॑ऽवाजे । सरी॑ । भ॒व॒ ॥
Mantra without Swara
यस्य ते पूषन्त्सख्ये विपन्यव: क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे। तामनु त्वा नवीयसीं नियुतं राय ईमहे। अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥
यस्य। ते। पूषन्। सख्ये। विपन्यवः। क्रत्वा। चित्। सन्तः। अवसा। बुभुज्रिरे। इति। क्रत्वा। बुभुज्रिरे। ताम्। अनु। त्वा। नवीयसीम्। निऽयुतम्। रायः। ईमहे। अहेळमानः। उरुऽशंस। सरी। भव। वाजेऽवाजे। सरी। भव ॥ १.१३८.३
Ashtak » 2
Adhyay » 2
Varga » 2
Mantra » 3
