Mantra with Swara
प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृध॑:। हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्य॑:। अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥
प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम॑नि । स्तोमे॑भिः । कृ॒ण्वे । ऋ॒णवः॑ । यथा॑ । मृधः॑ । उष्ट्रः॑ । न । पी॒प॒रः॒ । मृधः॑ । हु॒वे । यत् । त्वा॒ । म॒यः॒ऽभुव॑म् । दे॒वम् । स॒ख्याय॑ । मर्त्यः॑ । अ॒स्माक॑म् । आ॒ङ्गू॒षाम् । द्यु॒म्निनः॑ । कृ॒धि॒ । वाजे॑षु । द्यु॒म्निनः॑ । कृ॒धि॒ ॥
Mantra without Swara
प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृध:। हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्य:। अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥
प्र। हि। त्वा। पूषन्। अजिरम्। न। यामनि। स्तोमेभिः। कृण्वे। ऋणवः। यथा। मृधः। उष्ट्रः। न। पीपरः। मृधः। हुवे। यत्। त्वा। मयःऽभुवम्। देवम्। सख्याय। मर्त्यः। अस्माकम्। आङ्गूषाम्। द्युम्निनः। कृधि। वाजेषु। द्युम्निनः। कृधि ॥ १.१३८.२
Ashtak » 2
Adhyay » 2
Varga » 2
Mantra » 2
