Mantra with Swara
तत्तु प्रय॑: प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय॑म्। वि तद्वो॑चे॒रध॑ द्वि॒तान्तः प॑श्यन्ति र॒श्मिभि॑:। स घा॑ विदे॒ अन्विन्द्रो॑ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥
तत् । तु । प्रयः॑ । प्र॒त्नऽथा॑ । ते॒ । शु॒शु॒क्व॒नम् । यस्मि॑न् । य॒ज्ञे । वार॑म् । अकृ॑ण्वत । क्षय॑म् । ऋ॒तस्य॑ । वाः । अ॒सि॒ । क्षय॑म् । वि । तत् । वो॒चेः॒ । अध॑ । द्वि॒ता । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । र॒श्मिऽभिः॑ । सः । घ॒ । वि॒दे॒ । अनु॑ । इन्द्रः॑ । गो॒ऽएष॑णः । ब॒न्धु॒क्षित्ऽभ्यः॑ । गो॒ऽएष॑णः ॥
Mantra without Swara
तत्तु प्रय: प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम्। वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभि:। स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥
तत्। तु। प्रयः। प्रत्नऽथा। ते। शुशुक्वनम्। यस्मिन्। यज्ञे। वारम्। अकृण्वत। क्षयम्। ऋतस्य। वाः। असि। क्षयम्। वि। तत्। वोचेः। अध। द्विता। अन्तरिति। पश्यन्ति। रश्मिऽभिः। सः। घ। विदे। अनु। इन्द्रः। गोऽएषणः। बन्धुक्षित्ऽभ्यः। गोऽएषणः ॥ १.१३२.३
Ashtak » 2
Adhyay » 1
Varga » 21
Mantra » 3
