Mantra with Swara
स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुध॒: स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि। अह॒न्निन्द्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्य॑:। अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्सन्तु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तय॑: ॥
स्वः॒ऽजे॒षे । भरे॑ । आ॒प्रस्य॑ । वक्म॑नि । उ॒षः॒ऽबुधः॑ । स्वस्मि॑न् । अञ्ज॑सि । क्रा॒णस्य॑ । स्वस्मि॑न् । अञ्ज॑सि । अह॑न् । इन्द्रः॑ । यथा॑ । वि॒दे । शी॒र्ष्णाऽशी॑र्ष्णा । उ॒प॒ऽवाच्यः॑ । अ॒स्म॒ऽत्रा । ते॒ । स॒ध्र्य॑क् । स॒न्तु॒ । रा॒तयः॑ । भ॒द्राः । भ॒द्रस्य॑ । रा॒तयः॑ ॥
Mantra without Swara
स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुध: स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि। अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्य:। अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातय: ॥
स्वःऽजेषे। भरे। आप्रस्य। वक्मनि। उषःऽबुधः। स्वस्मिन्। अञ्जसि। क्राणस्य। स्वस्मिन्। अञ्जसि। अहन्। इन्द्रः। यथा। विदे। शीर्ष्णाऽशीर्ष्णा। उपऽवाच्यः। अस्मऽत्रा। ते। सध्र्यक्। सन्तु। रातयः। भद्राः। भद्रस्य। रातयः ॥ १.१३२.२
Ashtak » 2
Adhyay » 1
Varga » 21
Mantra » 2
