Mantra 1
यं त्वं रथ॑मिन्द्र मे॒धसा॑तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि। स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म्। सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥
यम् । त्वम् । रथ॑म् । इ॒न्द्र॒ । मे॒धऽसा॑तये । अ॒पा॒का । सन्त॑म् । इ॒षि॒र॒ । प्र॒ऽनय॑सि । प्र । अ॒न॒व॒द्य॒ । नय॑सि । स॒द्यः । चि॒त् । तम् । अ॒भिष्ट॑ये । करः॑ । वशः॑ । च॒ । वा॒जिन॑म् । सः । अ॒स्माक॑म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा॑म् । इ॒माम् । वाच॑म् । न । वे॒धसा॑म् ॥
Mantra 2
स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभि॑:। यः शूरै॒: स्व१॒॑सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता। तमी॑शा॒नास॑ इरधन्त वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिन॑म् ॥
सः । श्रु॒धि॒ । यः । स्म॒ । पृत॑नासु । कासु॑ । चि॒त् । द॒क्षाय्यः॑ । इ॒न्द्र॒ । भर॑ऽहूतये । नृऽभिः॑ । अ॒सि॒ । प्रऽतू॑र्तये । नृऽभिः॑ । यः । शूरैः॑ । स्वरिति॑ स्वः॑ । सनि॑ता । यः । विप्रैः॑ । वाज॑म् । तरु॑ता । तम् । ई॒शा॒नासः॑ । इ॒र॒ध॒न्त॒ । वा॒जिन॑म् । पृ॒क्षम् । अत्य॑म् । न । वा॒जिन॑म् ॥
Mantra 3
द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्य॑म्। इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे। मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथ॑: सुमृळी॒काय॑ स॒प्रथ॑: ॥
द॒स्मः । हि । ष्म॒ । वृष॑णम् । पिन्व॑सि । त्वच॑म् । कम् । चि॒त् । या॒वीः॒ । अ॒ररु॑म् । शू॒र॒ । मर्त्य॑म् । प॒रि॒ऽवृ॒णक्षि॑ । मर्त्य॑म् । इन्द्र॑ । उ॒त । तुभ्य॑म् । तत् । दि॒वे । तत् । रु॒द्राय॑ । स्वऽय॑शसे । मि॒त्राय॑ । वोच॑म् । वरु॑णाय । स॒ऽप्रथः॑ । सु॒ऽमृ॒ळी॒काय॑ । स॒ऽप्रथः॑ ॥
Mantra 4
अ॒स्माकं॑ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युज॑म्। अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित्। न॒हि त्वा॒ शत्रु॒: स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑ स्तृ॒णोषि॒ यम् ॥
अ॒स्माक॑म् । वः॒ । इन्द्र॑म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ । सखा॑य । वि॒श्वऽआ॑युम् । प्र॒ऽसह॑म् । युज॑म् । वाजे॑षु । प्र॒ऽसह॑म् । युज॑म् । अ॒स्माक॑म् । ब्रह्म॑ । ऊ॒तये॑ । अव॑ । पृ॒त्सुषु॑ । कासु॑ । चि॒त् । न॒हि । त्वा॒ । शत्रुः॑ । स्तर॑ते । स्तृ॒णोषि॑ । यम् । विश्व॑म् । शत्रु॑म् । स्तृ॒णोषि॑ । यम् ॥
Mantra 5
नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभि॑:। नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से। विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥
नि । सु । न॒म॒ । अति॑ऽमतिम् । कय॑स्य । चि॒त् । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । न । ऊ॒तिऽभिः॑ । उ॒ग्राभिः॑ । उ॒ग्र॒ । ऊ॒तिऽभिः॑ । नेषि॑ । नः॒ । यथा॑ । पु॒रा । अ॒ने॒नाः । शू॒र॒ । मन्य॑से । विश्वा॑नि । पू॑रोः । अप॑ । प॒र्षि॒ । वह्निः॑ । आ॒सा । वह्निः॑ । नः॒ । अच्छ॑ ॥
Mantra 6
प्र तद्वो॑चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति। स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम्। अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥
प्र । तत् । वो॒चे॒य॒म् । भव्या॑य । इन्द॑वे । हव्यः॑ । न । यः । इ॒षऽवा॑न् । मन्म॑ । रेज॑ति । र॒क्षः॒ऽहा । मन्म॑ । रेज॑ति । स्व॒यम् । सः । अ॒स्मत् । आ । नि॒दः । व॒धैः । अ॒जे॒त॒ । दुःऽम॒तिम् । अव॑ । स्र॒वे॒त् । अ॒घऽशं॑सः । अ॒व॒ऽत॒रम् । अव॑ । क्षु॒द्रम्ऽइ॑व । स्र॒वे॒त् ॥
Mantra 7
व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं सन्तं॑ सु॒वीर्य॑म्। दु॒र्मन्मा॑नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि। आ स॒त्याभि॒रिन्द्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥
व॒नेम॑ । तत् । होत्र॑या । चि॒तन्त्या॑ । व॒नेम॑ । र॒यिम् । र॒यि॒ऽवः॒ । सु॒ऽवीर्य॑म् । र॒ण्वम् । सन्त॑म् । सु॒ऽवीर्य॑म् । दुः॒ऽमन्मा॑नम् । सु॒मन्तु॑ऽभिः । आ । ई॒म् । इ॒षा । पृ॒ची॒म॒हि॒ । आ । स॒त्याभिः॑ । इन्द्र॑म् । द्यु॒म्नहू॑तिऽभिः । यज॑त्रम् । द्यु॒म्नहू॑तिऽभिः ॥
Mantra 8
प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो॑ दुर्मती॒नां दरी॑मन्दुर्मती॒नाम्। स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः। ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥
प्रऽप्र॑ । वः॒ । अ॒स्मे इति॑ । स्वय॑शःऽभिः । ऊ॒ती । प॒रि॒ऽव॒र्गे । इन्द्रः॑ । दुः॒ऽम॒ती॒नाम् । दरी॑मन् । दुः॒ऽम॒ती॒नाम् । स्व॒यम् । सा । रि॒ष॒यध्यै॒ । या । नः॒ । उ॒प॒ऽई॒षे । अ॒त्रैः । ह॒ता । ई॒म् । अ॒स॒त् । न । व॒क्ष॒ति॒ । क्षि॒प्ता । जू॒र्णिः । न । व॒क्ष॒ति॒ ॥
Mantra 9
त्वं न॑ इन्द्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑। सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ। पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भि॒: सदा॑ पाह्य॒भिष्टि॑भिः ॥
त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । परी॑णसा । या॒हि । प॒था । अ॒ने॒हसा॑ । पु॒रः । या॒हि । अ॒र॒क्षसा॑ । सच॑स्व । नः । प॒रा॒के । आ । सच॑स्व । अ॒स्त॒म्ऽई॒के । आ । पा॒हि । नः॒ । दू॒रात् । आ॒रात् । अ॒भिष्टि॑ऽभिः । सदा॑ । पा॒हि॒ । अ॒भिष्टि॑ऽभिः ॥
Mantra 10
त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से। ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य। अ॒न्यम॒स्मद्रि॑रिषे॒: कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥
त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । तरू॑षसा । उ॒ग्रम् । चि॒त् । त्वा॒ । म॒हि॒मा । स॒क्ष॒त् । अव॑से । म॒हे । मि॒त्रम् । न । अव॑से । ओजि॑ष्ठ । त्रातः॑ । अवि॑त्त॒रिति॑ । रथ॑म् । कम् । चि॒त् । अ॒म॒र्त्य॒ । अ॒न्यम् । अ॒स्मत् । रि॒रि॒षेः॒ । कम् । चि॒त् । अ॒द्रि॒ऽवः॒ । रिरि॑क्षन्तम् । चि॒त् । अ॒द्रि॒ऽवः॒ ॥
Mantra 11
पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम्। ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः। अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥
पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒त॒ । स्रि॒धः । अ॒व॒ऽया॒ता । सद॒म् । इत् । दुः॒ऽम॒ती॒नाम् । दे॒वः । सन् । दुः॒ऽम॒ती॒नाम् । ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माव॑तः । अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥