1-Adi Parva / Adhyay 93
Shloka 8
Shloka
शिबिरुवाच-तांस्त्वं लोकान् प्रतिपद्यस्व राजन्
मया दत्तान् यदि नेष्टः क्रयस्ते।
न च अहं तान् प्रतिपत्स्ये ह दत्त्वा
यत्र गत्वा नानुशोचन्ति धीराः॥1.93.8
