1-Adi Parva / Adhyay 93
Shloka 5
Shloka
वसुमानुवाच-तांस्त्वं लोकान् प्रतिपद्यस्व राजन्
मया दत्तान् यदि नेष्टः क्रयस्ते।
अहं न तान् वै प्रतिगन्ता नरेन्द्र
सर्वे लोकास्तव ते वै भवन्तु॥1.93.5
