1-Adi Parva / Adhyay 76
Shloka 64
Shloka
ऋतस्य दातारमनुत्तमस्य निधिम्निधीनामपि लब्धविद्याः।
ये नाद्रियन्ते गुरुमर्चनीयम्
पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः॥1.76.64
