1-Adi Parva / Adhyay 3
Shloka 79
Shloka
स तथा इति उक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरः अवसत् गौः इव नित्यं गुरुणा धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्र अप्रतिकूलः तस्य महता कालेन गुरुः परितोषं जगाम॥1.3.79
