1-Adi Parva / Adhyay 3
Shloka 78
Shloka
अथ अपरः शिष्यः तस्य एव आयोदस्य धौम्यस्य वेदः नाम तं उपाध्यायः समादिदेश वत्स वेद इह आस्यतां तावत् मम गृहे कंचित् कालं शुश्रूषुणा च भवितव्यं श्रेयः ते भविष्यति इति॥1.3.78
