1-Adi Parva / Adhyay 3
Shloka 20
Shloka
स तं पुरोहितं उपादाय उपावृत्तः भ्रातॄन् उवाच मया अयं वृतः उपाध्यायः यत् अयं ब्रूयात् तत् कार्यं अविचारयद्भिः भवद्भिः इति।तेन एवं उक्ता भ्रातरः तस्य तथा चक्रुः।
स तथा भ्रातॄन् संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास॥1.3.20
