1-Adi Parva / Adhyay 3
Shloka 109
Shloka
अथ उत्तङ्कः तं तथा इति उक्त्वा प्राङ्मुखः उपविश्य सुप्रक्षालितपाणिपादवदनः निःशब्दाभिः अफेनाभिः अनुष्णाभिः हृद्गताभिः अद्भिः त्रिः पीत्वा द्विः परिमृज्य खानि अद्भिः उपस्पृश्य च अन्तःपुरं प्रविवेश॥1.3.109
