Mantra 1
साह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न्विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्। भ॒द्रं दा॒त्रे यज॑मानाय शिक्षन्बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ॥
सा॒ह॒स्र: । त्वे॒ष: । ऋ॒ष॒भ: । पय॑स्वान् । विश्वा॑ । रू॒पाणि॑ । व॒क्षणा॑सु । बिभ्र॑त् । भ॒द्रम् । दा॒त्रे । यज॑मानाय । शिक्ष॑न् । बा॒र्ह॒स्प॒त्य: । उ॒स्रिय॑: । तन्तु॑म् । आ । अ॒ता॒न् ॥४.१॥
Mantra 2
अ॒पां यो अग्ने॑ प्रति॒मा ब॒भूव॑ प्र॒भूः सर्व॑स्मै पृथि॒वीव॑ दे॒वी। पि॒ता व॒त्सानां॒ पति॑र॒घ्न्यानां॑ साह॒स्रे पोषे॒ अपि॑ नः कृणोतु ॥
अ॒पाम् । य: । अग्ने॑ । प्र॒ति॒ऽमा । ब॒भूव॑ । प्र॒ऽभू: । सर्व॑स्मै । पृ॒थि॒वीऽइ॑व । दे॒वी । पि॒ता । व॒त्साना॑म् । पति॑: । अ॒घ्न्याना॑म् । सा॒ह॒स्रे । पोषे॑ । अपि॑ । न॒: । कृ॒णो॒तु॒ ॥४.२॥
Mantra 3
पुमा॑न॒न्तर्वा॒न्त्स्थवि॑रः॒ पय॑स्वा॒न्वसोः॒ कब॑न्धमृष॒भो बि॑भर्ति। तमिन्द्रा॑य प॒थिभि॑र्देव॒यानै॑र्हु॒तम॒ग्निर्व॑हतु जा॒तवे॑दाः ॥
पुमा॑न् । अ॒न्त:ऽवा॑न् । स्थवि॑र: । पय॑स्वान् । वसो॑: । कब॑न्धम् । ऋ॒ष॒भ: । बि॒भ॒र्ति॒ । तम् । इन्द्रा॑य । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । हु॒तम् । अ॒ग्नि: । व॒ह॒तु॒ । जा॒तऽवे॑दा: ॥४.३॥
Mantra 4
पि॒ता व॒त्सानां॒ पति॑र॒घ्न्याना॒मथो॑ पि॒ता म॑ह॒तां गर्ग॑राणाम्। व॒त्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॑ घृ॒तं तद्व॑स्य॒ रेतः॑ ॥
पि॒ता । व॒त्साना॑म् । पति॑: । अ॒घ्न्याना॑म् । अथो॒ इति॑ । पि॒ता । म॒ह॒ताम् । गर्ग॑राणाम् । व॒त्स: । ज॒रायु॑: । प्र॒ति॒ऽधुक् । पी॒यूष॑: । आ॒मिक्षा॑ । घृ॒तम् । तत् । ऊं॒ इति॑ । अ॒स्य॒ । रेत॑: ॥४.४॥
Mantra 5
दे॒वानां॑ भा॒ग उ॑पना॒ह ए॒षो॒पां रस॒ ओष॑धीनां घृ॒तस्य॑। सोम॑स्य भ॒क्षम॑वृणीत श॒क्रो बृ॒हन्नद्रि॑रभव॒द्यच्छरी॑रम् ॥
दे॒वाना॑म् । भा॒ग: । उ॒प॒ऽना॒ह: । ए॒ष: । अ॒पाम् । रस॑: । ओष॑धीनाम् । घृ॒तस्य॑ । सोम॑स्य । भ॒क्षम् । अ॒वृ॒णी॒त॒ । श॒क्र: । बृ॒हन् । अद्रि॑: । अ॒भ॒व॒त् । यत् । शरी॑रम् ॥४.५॥
Mantra 6
सोमे॑न पू॒र्णं क॒लशं॑ बिभर्षि॒ त्वष्टा॑ रू॒पाणां॑ जनि॒ता प॑शू॒नाम्। शि॒वास्ते॑ सन्तु प्रज॒न्व इ॒ह या इ॒मा न्यस्मभ्यं॑ स्वधिते यच्छ॒ या अ॒मूः ॥
सोमे॑न । पू॒र्णम् । क॒लश॑म् । बि॒भ॒र्षि॒ । त्वष्टा॑ । रूपाणा॑म् । ज॒नि॒ता । प॒शू॒नाम् । शि॒वा: । ते॒ । स॒न्तु॒ । प्र॒ऽज॒न्व᳡: । इ॒ह । या: । इ॒मा: । नि । अ॒स्मभ्य॑म् । स्व॒ऽधि॒ते॒ । य॒च्छ॒ । या: । अ॒मू: ॥४.६॥
Mantra 7
आज्यं॑ बिभर्ति घृ॒तम॑स्य॒ रेतः॑ साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः। इन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑नः॒ सो अ॒स्मान्दे॑वाः शि॒व ऐतु॑ द॒त्तः ॥
आज्य॑म् । बि॒भ॒र्ति॒ । घृ॒तम् । अ॒स्य॒ । रेत॑: । सा॒ह॒स्र: । पोष॑: । तम् । ऊं॒ इति॑ । य॒ज्ञम् । आ॒हु॒: । इन्द्र॑स्य । रू॒पम् । ऋ॒ष॒भ: । वसा॑न: । स: । अ॒स्मान् । दे॒वा॒: । शि॒व: । आ । ए॒तु॒ । द॒त्त: ॥४.७॥
Mantra 8
इन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्। बृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ॥
इन्द्र॑स्य । ओज॑: । वरु॑णस्य । बा॒हू इति॑ । अ॒श्विनो॑: । अंसौ॑ । म॒रुता॑म् । इ॒यम् । क॒कुत् । बृह॒स्पति॑म् । सम्ऽभृ॑तम् । ए॒तम् । आ॒हु॒: । ये । धीरा॑स: । क॒वय॑: । ये । म॒नी॒षिण॑: ॥४.८॥
Mantra 9
दैवी॒र्विशः॒ पय॑स्वा॒ना त॑नोषि॒ त्वामिन्द्रं॒ त्वां सर॑स्वन्तमाहुः। स॒हस्रं॒ स एक॑मुखा ददाति॒ यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥
दैवी॑: । विश॑: । पय॑स्वान् । आ । त॒नो॒षि॒ । त्वाम् । इन्द्र॑म् । त्वाम् । सर॑स्वन्तम् । आ॒हु॒: । स॒हस्र॑म् । स: । एक॑ऽमुखा: । द॒दा॒ति॒ । य: । ब्रा॒ह्म॒णे । ऋ॒ष॒भम् । आ॒ऽजु॒होति॑ ॥४.९॥
Mantra 10
बृह॒स्पतिः॑ सवि॒ता ते॒ वयो॑ दधौ॒ त्वष्टु॑र्वा॒योः पर्या॒त्मा त॒ आभृ॑तः। अ॒न्तरि॑क्षे॒ मन॑सा त्वा जुहोमि ब॒र्हिष्टे॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
बृह॒स्पति॑: । स॒वि॒ता । ते॒ । वय॑: । द॒धौ॒ । त्वष्टु॑: । वा॒यो: । परि॑ । आ॒त्मा । ते॒ । आऽभृ॑त: । अ॒न्तरि॑क्षे । मन॑सा । त्वा॒ । जु॒हो॒मि॒ । ब॒र्हि: । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥४.१०॥
Mantra 11
य इन्द्र॑ इव दे॒वेषु॒ गोष्वे॑ति वि॒वाव॑दत्। तस्य॑ ऋष॒भस्याङ्गा॑नि ब्र॒ह्मा सं स्तौ॑तु भ॒द्रया॑ ॥
य: । इन्द्र॑:ऽइव । दे॒वेषु॑ । गोषु॑ । एति॑ । वि॒ऽवाव॑दत् । तस्य॑ । ऋ॒ष॒भस्य॑ । अङ्गा॑नि । ब्र॒ह्मा । सम् । स्तौ॒तु॒ । भ॒द्रया॑ ॥४.११॥
Mantra 12
पा॒र्श्वे आ॑स्ता॒मनु॑मत्या॒ भग॑स्यास्तामनू॒वृजौ॑। अ॑ष्ठी॒वन्ता॑वब्रवीन्मि॒त्रो ममै॒तौ केव॑ला॒विति॑ ॥
पा॒र्श्वे इति॑ । आ॒स्ता॒म् । अनु॑ऽमत्या: । भग॑स्य । आ॒स्ता॒म् । अ॒नु॒ऽवृजौ॑ । अ॒ष्ठी॒वन्तौ॑ । अ॒ब्र॒वी॒त् । मि॒त्र: । मम॑ । ए॒तौ । केव॑लौ । इति॑ ॥४.१२॥
Mantra 13
भ॒सदा॑सीदादि॒त्यानां॒ श्रोणी॑ आस्तां॒ बृह॒स्पतेः॑। पुच्छं॒ वात॑स्य दे॒वस्य॒ तेन॑ धूनो॒त्योष॑धीः ॥
भ॒सत् । आ॒सी॒त् । आ॒दि॒त्याना॑म् । श्रोणी॒ इति॑ । आ॒स्ता॒म् । बृह॒स्पते॑: । पुच्छ॑म् । वात॑स्य । दे॒वस्य॑ । तेन॑ । धू॒नो॒ति॒ । ओष॑धी: ॥४.१३॥
Mantra 14
गुदा॑ आसन्त्सिनीवा॒ल्याः सू॒र्याया॒स्त्वच॑मब्रुवन्। उ॑त्था॒तुर॑ब्रुवन्प॒द ऋ॑ष॒भं यदक॑ल्पयन् ॥
गुदा॑: । आ॒स॒न् । सि॒नी॒वा॒ल्या: । सू॒र्याया॑: । त्वच॑म् । अ॒ब्रु॒व॒न् । उ॒त्था॒तु: । अ॒ब्रु॒व॒न् । प॒द: । ऋ॒ष॒भम् । यत् । अक॑ल्पयन् ॥४.१४॥
Mantra 15
क्रो॒ड आ॑सीज्जामिशं॒सस्य॒ सोम॑स्य॒ क॒लशो॑ धृ॒तः। दे॒वाः सं॒गत्य॒ यत्सर्व॑ ऋष॒भं व्यक॑ल्पयन् ॥
क्रो॒ड: । आ॒सी॒त् । जा॒मि॒ऽशं॒सस्य॑ । सोम॑स्य । क॒लश॑: । धृ॒त: । दे॒वा: । स॒म्ऽगत्य॑ । यत् । सर्वे॑ । ऋ॒ष॒भम् । वि॒ऽअक॑ल्पयन् ॥४.१५॥
Mantra 16
ते कुष्ठि॑काः स॒रमा॑यै कु॒र्मेभ्यो॑ अदधुः श॒फान्। ऊब॑ध्यमस्य की॒टेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन् ॥
ते । कुष्ठि॑का: । स॒रमा॑यै । कू॒र्मेभ्य॑: । अ॒द॒धु॒: । श॒फान् । ऊब॑ध्यम् । अ॒स्य॒ । की॒टेभ्य॑: । श्वे॒ऽव॒र्तेभ्य॑: । अ॒धा॒र॒यन् ॥४.१६॥
Mantra 17
शृङ्गा॑भ्यां॒ रक्ष॑ ऋष॒त्यव॑र्तिं हन्ति॒ चक्षु॑षा। शृ॒णोति॑ भ॒द्रं कर्णा॑भ्यां॒ गवां॒ यः पति॑र॒घ्न्यः ॥
शृङ्गा॑भ्याम् । रक्ष॑: । ऋ॒ष॒ति॒ । अव॑र्तिम् । ह॒न्ति॒ । चक्षु॑षा । शृ॒णोति॑ । भ॒द्रम् । कर्णा॑भ्याम् । गवा॑म् । य: । पति॑: । अ॒घ्न्य: ॥४.१७॥
Mantra 18
श॑त॒याजं॒ स य॑जते॒ नैनं॑ दुन्वन्त्य॒ग्नयः॑। जिन्व॑न्ति॒ विश्वे॒ तं दे॒वा यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥
श॒त॒ऽयाज॑म् । स: । य॒ज॒ते॒ । न । ए॒न॒म् । दु॒न्व॒न्ति॒ । अ॒ग्नय॑: । जिन्व॑न्ति । विश्वे॑ । तम् । दे॒वा: । य: । ब्रा॒ह्म॒णे । ऋ॒ष॒भम् । आ॒ऽजु॒होति॑ ॥४.१८॥
Mantra 19
ब्रा॑ह्म॒णेभ्य॑ ऋष॒भं द॒त्त्वा वरी॑यः कृणुते॒ मनः॑। पुष्टिं॒ सो अ॒घ्न्यानां॒ स्वे गो॒ष्ठेऽव॑ पश्यते ॥
ब्रा॒ह्म॒णेभ्य॑: । ऋ॒ष॒भम् । द॒त्त्वा । वरी॑य: । कृ॒णु॒ते॒ । मन॑: । पुष्टि॑म् । स: । अ॒घ्न्याना॑म् । स्वे । गो॒ऽस्थे । अव॑ । प॒श्य॒ते॒ ॥४.१९॥
Mantra 20
गावः॑ सन्तु प्र॒जाः स॒न्त्वथो॑ अस्तु तनूब॒लम्। तत्सर्व॒मनु॑ मन्यन्तां दे॒वा ऋ॑षभदा॒यिने॑ ॥
गाव॑: । स॒न्तु॒ । प्र॒ऽजा: । स॒न्तु॒ । अथो॒ इति॑ । अ॒स्तु॒ । त॒नू॒ऽब॒लम् । तत् । सर्व॑म् । अनु॑ । म॒न्य॒न्ता॒म् । दे॒वा: । ऋ॒ष॒भ॒ऽदा॒यि॑ने ॥४.२०॥
Mantra 21
अ॒यं पि॑पान॒ इन्द्र॒ इद्र॒यिं द॑धातु चेत॒नीम्। अ॒यं धे॒नुं सु॒दुघां॒ नित्य॑वत्सां॒ वशं॑ दुहां विप॒श्चितं॑ प॒रो दि॒वः ॥
अ॒यम् । पिपा॑न: । इन्द्र॑: । इत् । र॒यिम् । द॒धा॒तु॒ । चे॒त॒नीम् । अ॒यम् । धे॒नुम् । सु॒ऽदुघा॑म् । नित्य॑ऽवत्साम् । वश॑म् । दु॒हा॒म् । वि॒प॒:ऽचित॑म् । प॒र: । दि॒व:॥४.२१॥
Mantra 22
पि॒शङ्ग॑रूपो नभ॒सो व॑यो॒धा ऐ॒न्द्रः शुष्मो॑ वि॒श्वरू॑पो न॒ आग॑न्। आयु॑र॒स्मभ्यं॒ दध॑त्प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचताम् ॥
पि॒शङ्ग॑ऽरूप: । न॒भ॒स: । व॒य॒:ऽधा: । ऐ॒न्द्र: । शुष्म॑: । वि॒श्वऽरू॑प: । न॒: । आ । अ॒ग॒न् । आयु॑: । अ॒स्मभ्य॑म् । दध॑त् । प्र॒ऽजाम् । च॒ । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ता॒म् ॥४.२३॥
Mantra 23
उपे॒होप॑पर्चना॒स्मिन्गो॒ष्ठ उप॑ पृञ्च नः। उप॑ ऋष॒भस्य॒ यद्रेत॒ उपे॑न्द्र॒ तव॑ वी॒र्यम् ॥
उप॑ । इ॒ह । उ॒प॒ऽप॒र्च॒न॒ । अ॒स्मिन् । गो॒ऽस्थे । उप॑ । पृ॒ञ्च॒ । न॒: । उप॑ । ऋ॒ष॒भस्य॑ । यत् । रेत॑: । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्य᳡म् ॥४.२४॥
Mantra 24
ए॒तं वो॒ युवा॑नं॒ प्रति॑ दध्मो॒ अत्र॒ तेन॒ क्रीड॑न्तीश्चरत॒ वशाँ॒ अनु॑। मा नो॑ हासिष्ट ज॒नुषा॑ सुभागा रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ॥
ए॒तम् । व॒: । युवा॑नम् । प्रति॑ । द॒ध्म॒: । अत्र॑ । तेन॑ । क्रीड॑न्ती: । च॒र॒त॒ । वशा॑न् । अनु॑ । मा । न॒: । हा॒सि॒ष्ट॒ । ज॒नुषा॑ । सु॒ऽभा॒गा॒: । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ध्व॒म् ॥४.२५॥