Mantra 1
या ब॒भ्रवो॒ याश्च॑ शु॒क्रा रोहि॑णीरु॒त पृश्न॑यः। असि॑क्नीः कृ॒ष्णा ओष॑धीः॒ सर्वा॑ अ॒च्छाव॑दामसि ॥
या: । ब॒भ्रव॑: । या: । च॒ । शु॒क्रा: । रोहि॑णी: । उ॒त । पृश्न॑य: । असि॑क्नी: । कृ॒ष्णा: । ओष॑धी: । सर्वा॑: । अ॒च्छ॒ऽआव॑दामसि ॥७.१॥
Mantra 2
त्राय॑न्तामि॒मं पुरु॑षं॒ यक्ष्मा॑द्दे॒वेषि॑ता॒दधि॑। यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ ॥
त्राय॑न्ताम् । इ॒मम् । पुरु॑षम् । यक्ष्मा॑त् । दे॒वऽइ॑षितात् । अधि॑ । यासा॑म् । द्यौ: । पि॒ता । पृ॒थि॒वी । मा॒ता ।स॒मु॒द्र: । मूल॑म् । वी॒रुधा॑म् । ब॒भूव॑ ॥७.२॥
Mantra 3
आपो॒ अग्रं॑ दि॒व्या ओष॑धयः। तास्ते॒ यक्ष्म॑मेन॒स्यमङ्गा॑दङ्गादनीनशन् ॥
आप॑: । अग्र॑म् । दि॒व्या: । ओष॑धय: । ता: । ते॒ । यक्ष्म॑म् । ए॒न॒स्य᳡म् । अङ्गा॑त्ऽअङ्गात् । अ॒नी॒न॒श॒न् ॥७.३॥
Mantra 4
प्र॑स्तृण॒ती स्त॒म्बिनी॒रेक॑शुङ्गाः प्रतन्व॒तीरोष॑धी॒रा व॑दामि। अं॑शु॒मतीः॑ का॒ण्डिनी॒र्या विशा॑खा॒ ह्वया॑मि ते वी॒रुधो॑ वैश्वदे॒वीरु॒ग्राः पु॑रुष॒जीव॑नीः ॥
प्र॒ऽस्तृ॒ण॒ती: । स्त॒म्बिनी॑: । एक॑ऽशुङ्गा: । प्र॒ऽत॒न्व॒ती: । ओष॑धी: । आ । व॒दा॒मि॒ । अं॒शु॒ऽमती॑: । का॒ण्डिनी॑: । या: । विऽशा॑खा: । ह्वया॑मि । ते॒ । वी॒रुध॑: । वै॒श्व॒ऽदे॒वी: । उ॒ग्रा: । पु॒रु॒ष॒ऽजीव॑नी: ॥७.४॥
Mantra 5
यद्वः॒ सहः॑ सहमाना वी॒र्यं यच्च॑ वो॒ बल॑म्। तेने॒मम॒स्माद्यक्ष्मा॒त्पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम् ॥
यत् । व॒: । सह॑: । स॒ह॒मा॒ना॒: । वी॒र्य᳡म् । यत् । च॒ । व॒: । बल॑म् । तेन॑ । इ॒मम् । अ॒स्मात् । यक्ष्मा॑त् । पुरु॑षम् । मु॒ञ्च॒त॒ । ओ॒ष॒धी॒: । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् ॥७.५॥
Mantra 6
जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। अ॑रुन्ध॒तीमु॒न्नय॑न्तीं पु॒ष्पां मधु॑मतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
जी॒व॒लाम् । न॒घ॒ऽरि॒षाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । अ॒रु॒न्ध॒तीम् । उ॒त्ऽनय॑न्तीम् । पु॒ष्पाम् । मधु॑ऽमतीम् । इ॒ह । हु॒वे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥७.६॥
Mantra 7
इ॒हा य॑न्तु॒ प्रचे॑तसो मे॒दिनी॒र्वच॑सो॒ मम॑। यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ॥
इ॒ह । आ । य॒न्तु॒ । प्रऽचे॑तस: । मे॒दिनी॑: । वच॑स: ।मम॑ । यथा॑ । इ॒मम् । पा॒रया॑मसि । पुरु॑षम्। दु॒:ऽइ॒तात् । अधि॑ ॥७.७॥
Mantra 8
अ॒ग्नेर्घा॒सो अ॒पां गर्भो॒ या रोह॑न्ति॒ पुन॑र्णवाः। ध्रु॒वाः स॒हस्र॑ना॒म्नीर्भे॑ष॒जीः स॒न्त्वाभृ॑ताः ॥
अ॒ग्ने: । घा॒स: । अ॒पाम्। गर्भ॑: । या: । रोह॑न्ति । पुन॑:ऽनवा: । ध्रु॒वा: । स॒हस्र॑ऽनाम्नी: । भे॒ष॒जी: । स॒न्तु॒ । आऽभृ॑ता: ॥७.८॥
Mantra 9
अ॒वको॑ल्बा उ॒दका॑त्मान॒ ओष॑धयः। व्यृषन्तु दुरि॒तं ती॑क्ष्णशृ॒ङ्ग्यः ॥
अ॒वका॑ऽउल्बा: । उ॒दक॑ऽआत्मान: । ओष॑धय: । वि । ऋ॒ष॒न्तु॒ । दु॒:ऽइ॒तम् । ती॒क्ष्ण॒ऽशृ॒ङ्ग्य᳡: ॥७.९॥
Mantra 10
उ॑न्मु॒ञ्चन्ती॑र्विवरु॒णा उ॒ग्रा या वि॑ष॒दूष॑णीः। अथो॑ बलास॒नाश॑नीः कृत्या॒दूष॑णीश्च॒ यास्ता इ॒हा य॒न्त्वोष॑धीः ॥
उ॒त्ऽमु॒ञ्चन्ती॑: । वि॒ऽव॒रु॒णा: । उ॒ग्रा: । या: । वि॒ष॒ऽदूष॑णी: । अथो॒ इति॑ । ब॒ला॒स॒ऽनाश॑नी: । कृ॒त्या॒ऽदूष॑णी: । च॒ । या: । ता: । इ॒ह । आ । य॒न्तु॒ । ओष॑धी: ॥७.१०॥
Mantra 11
अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः। त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ॥
अ॒प॒ऽक्री॒ता: । सही॑यसी: । वी॒रुध॑: । या: । अ॒भिऽस्तु॑ता: । त्राय॑न्ताम् । अ॒स्मिन् । ग्रामे॑ । गाम् । अश्व॑म् । पुरु॑षम् । प॒शुम् ॥७.११॥
Mantra 12
मधु॑म॒न्मूलं॒ मधु॑म॒दग्र॑मासां॒ मधु॑म॒न्मध्यं॑ वी॒रुधां॑ बभूव। मधु॑मत्प॒र्णं मधु॑म॒त्पुष्प॑मासां॒ मधोः॒ सम्भ॑क्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं॑ दुह्रतां॒ गोपु॑रोगवम् ॥
मधु॑ऽमत् । मूल॑म् । मधु॑ऽमत् । अग्र॑म् । आ॒सा॒म् । मधु॑ऽमत् । मध्य॑म् । वी॒रुधा॑म् । ब॒भू॒व॒ । मधु॑ऽमत् । प॒र्णम् । मधु॑ऽमत् । पुष्प॑म् । आ॒सा॒म् । मधो॑: । सम्ऽभ॑क्ता: । अ॒मृत॑स्य । भ॒क्ष: । घृ॒तम् । अन्न॑म् । दु॒ह॒ता॒म् । गोऽपु॑रोगवम् ॥७.१२॥
Mantra 13
याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः। ता मा॑ सहस्रप॒र्ण्यो मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥
याव॑ती: । किय॑ती: । च॒ । इ॒मा: । पृ॒थि॒व्याम् । अधि॑ । ओष॑धी: । ता: । मा॒ । स॒ह॒स्र॒ऽप॒र्ण्य᳡: । मृ॒त्यो: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥७.१३॥
Mantra 14
वैया॑घ्रो म॒णिर्वी॒रुधां॒ त्राय॑माणोऽभिशस्ति॒पाः। अमी॑वाः॒ सर्वा॒ रक्षां॒स्यप॑ ह॒न्त्वधि॑ दू॒रम॒स्मत् ॥
वैया॑घ्र: । म॒णि: । वी॒रुधा॑म् । त्राय॑माण: । अ॒भि॒श॒स्ति॒ऽपा: । अमी॑वा: । सर्वा॑ । रक्षां॑सि । अ॑प । ह॒न्तु॒ । अधि॑ । दू॒रम् । अ॒स्मत् ॥७.१४॥
Mantra 15
सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः। गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या एतु स्रो॒त्याः ॥
सिं॒हस्य॑ऽइव । स्त॒नयो॑: । सम् । वि॒ज॒न्ते॒ । अ॒ग्ने:ऽइ॑व । वि॒ज॒न्ते॒ । आऽभृ॑ताभ्य: । गवा॑म् । यक्ष्म॑: । पुरु॑षाणाम् । वी॒रत्ऽभि॑: । अति॑ऽनुत्त: । ना॒व्या᳡: । ए॒तु॒ । स्रो॒त्या: ॥७.१५॥
Mantra 16
मु॑मुचा॒ना ओष॑धयो॒ऽग्नेर्वै॑श्वान॒रादधि॑। भूमिं॑ सन्तन्व॒तीरि॑त॒ यासां॒ राजा॒ वन॒स्पतिः॑ ॥
मु॒मु॒चा॒ना: । ओष॑धय: । अ॒ग्ने: । वै॒श्वा॒न॒रात् । अधि॑ । भूमि॑म् । स॒म्ऽत॒न्व॒ती: । इ॒त॒ । यासा॑म् । राजा॑ । वन॒स्पति॑: ॥७.१६॥
Mantra 17
या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च। ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे ॥
या: । रोह॑न्ति । आ॒ङ्गि॒र॒सी: । पर्व॑तेषु । स॒मेषु॑ । च॒ । ता: । न॒: । पय॑स्वती: । शि॒वा: । ओष॑धी: । स॒न्तु॒ । शम् । हृ॒दे ॥७.१७॥
Mantra 18
याश्चा॒हं वेद॑ वी॒रुधो॒ याश्च॒ पश्या॑मि॒ चक्षु॑षा। अज्ञा॑ता जानी॒मश्च॒ या यासु॑ वि॒द्म च॒ संभृ॑तम् ॥
या: । च॒ । अ॒हम् । वेद॑ । वी॒रुध॑: । या: । च॒ । पश्या॑मि । चक्षु॑षा । अज्ञा॑ता: । जा॒नी॒म: । च॒ । या: । यासु॑ । वि॒द्म । च॒ । सम्ऽभृ॑तम् ॥७.१८॥
Mantra 19
सर्वाः॑ सम॒ग्रा ओष॑धी॒र्बोध॑न्तु॒ वच॑सो॒ मम॑। यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ॥
सर्वा॑: । स॒म्ऽअ॒ग्रा: । ओष॑धी: । बोध॑न्तु । वच॑स: । मम॑ । यथा॑ । इ॒मम् । पा॒रया॑मसि । पुरु॑षम् । दु॒:ऽइ॒तात् । अधि॑॥७.१९॥
Mantra 20
अ॑श्व॒त्थो द॒र्भो वी॒रुधां॒ सोमो॒ राजा॒मृतं॑ ह॒विः। व्री॒हिर्यव॑श्च भेष॒जौ दि॒व॒स्पु॒त्रावम॑र्त्यौ ॥
अ॒श्व॒त्थ: । द॒र्भ: । वी॒रुधा॑म् । सोम॑: । राजा॑ । अ॒मृत॑म् । ह॒वि: । व्री॒हि: । यव॑: । च॒ । भे॒ष॒जौ । दि॒व: । पु॒त्रौ । अम॑र्त्यौ ॥७.२०॥
Mantra 21
उज्जि॑हीध्वे स्त॒नय॑त्यभि॒क्रन्द॑त्योषधीः। य॒दा वः॑ पृश्निमातरः प॒र्जन्यो॒ रेत॒साव॑ति ॥
उत् । जि॒ही॒ध्वे॒ । स्त॒नय॑ति । अ॒भि॒ऽक्रन्द॑ति । ओ॒ष॒धी॒: । य॒दा । व॒: । पृ॒श्नि॒ऽमा॒त॒र॒: । प॒र्जन्य॑: । रेत॑सा । अव॑ति ॥७.२१॥
Mantra 22
तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि। अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥
तस्य॑ । अ॒मृत॑स्य । इ॒मम्। बल॑म् । पुरु॑षम् । पा॒य॒या॒म॒सि॒ । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् । यथा॑ । अस॑त् । श॒तऽहा॑यन: ॥७.२२॥
Mantra 23
व॑रा॒हो वे॑द वी॒रुधं॑ नकु॒लो वे॑द भेष॒जीम्। स॒र्पा ग॑न्ध॒र्वा या वि॒दुस्ता अ॒स्मा अव॑से हुवे ॥
व॒रा॒ह: । वे॒द॒ । वी॒रुध॑म्। न॒कु॒ल: । वे॒द॒ । भे॒ष॒जीम् । स॒र्पा: । ग॒न्ध॒र्वा: । या: । वि॒दु: । ता: । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२३॥
Mantra 24
याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घटो॑ वि॒दुः। वयां॑सि हं॒सा या वि॒दुर्याश्च॒ सर्वे॑ पत॒त्त्रिणः॑। मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ॥
या: । सु॒ऽप॒र्णा: । आ॒ङ्गि॒र॒सी: । दि॒व्या: । या: । र॒घट॑: । वि॒दु: । वयां॑सि । हं॒सा: । या: । वि॒दु: । या: । च॒ । सर्वे॑ । प॒त॒त्रिण॑: । मृ॒गा: । या: । वि॒दु: । ओष॑धी: । ता: । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२४॥
Mantra 25
याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑। ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥
याव॑तीनाम् । ओष॑धीनाम् । गाव॑: । प्र॒ऽअ॒श्नन्ति॑ । अ॒घ्न्या: । याव॑तीनाम् । अ॒ज॒ऽअ॒वय॑: । ताव॑ती: । तुभ्य॑म् । ओष॑धी: । शर्म॑ । य॒च्छ॒न्तु॒ । आऽभृ॑ता: ॥७.२५॥
Mantra 26
याव॑तीषु मनु॒ष्या भेष॒जं भि॒षजो॑ वि॒दुः। ताव॑तीर्वि॒श्वभे॑षजी॒रा भ॑रामि॒ त्वाम॒भि ॥
याव॑तीषु । म॒नु॒ष्या᳡: । भे॒ष॒जम् । भि॒षज॑: । वि॒दु: । ताव॑ती: । वि॒श्वऽभे॑षजी: । आ । भ॒रा॒मि॒ । त्वाम् । अ॒भि ॥७.२६॥
Mantra 27
पुष्प॑वतीः प्र॒सूम॑तीः फ॒लिनी॑रफ॒ला उ॒त। सं॑मा॒तर॑ इव दुह्राम॒स्मा अ॑रि॒ष्टता॑तये ॥
पुष्प॑ऽवती: । प्र॒सूऽम॑ती: । फ॒लिनी॑: । अ॒फ॒ला । उ॒त । सं॒मा॒तर॑:ऽइव । दु॒ह्रा॒म् । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥७.२७॥
Mantra 28
उत्त्वा॑हार्षं॒ पञ्च॑शला॒दथो॒ दश॑शलादु॒त। अथो॒ यम॑स्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥
उत् । त्वा॒ । अ॒हा॒र्ष॒म् । पञ्च॑ऽशलात् । अथो॒ इति॑ । दश॑ऽशलात् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥७.२८॥