Mantra with Swara
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वा अदि॑ति॒र्पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
अदि॑ति: । द्यौ: । अदि॑ति: । अ॒न्तरि॑क्षम् । अदि॑ति: । मा॒ता । स: । पि॒ता । स । पु॒त्र: । विश्वे॑ । दे॒वा: । अदि॑ति: । पञ्च॑ । जना॑: । अदि॑ति: । जा॒तम् । अदि॑ति: । जनि॑त्वम् ॥६.१॥
Mantra without Swara
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥
अदिति: । द्यौ: । अदिति: । अन्तरिक्षम् । अदिति: । माता । स: । पिता । स । पुत्र: । विश्वे । देवा: । अदिति: । पञ्च । जना: । अदिति: । जातम् । अदिति: । जनित्वम् ॥६.१॥
