Mantra 1
तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्। तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥
तिर॑श्चिऽराजे: । अ॒सि॒तात् । पृदा॑को: । परि॑ । सम्ऽभृ॑तम् । तत् । क॒ङ्कप॑र्वण: । वि॒षम् । इ॒यम् । वी॒रुत् । अ॒नी॒न॒श॒त् ॥५८.१॥
Mantra 2
इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः। सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥
इ॒यम् । वी॒रुत् । मधु॑ऽजाता । म॒धु॒ऽश्चुत् । म॒धु॒ला । म॒धू: । सा । विऽह्रु॑तस्य । भे॒ष॒जी । अथो॒ इति॑ । म॒श॒क॒ऽजम्भ॑नी ॥५८.२॥
Mantra 3
यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि। अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥
यत॑: । द॒ष्टम् । यत॑: । धी॒तम् । तत॑: । ते॒ । नि: । ह्व॒या॒म॒सि॒ । अ॒र्भस्य॑ । तृ॒प्र॒ऽदं॒शिन॑: । म॒शक॑स्य । अ॒र॒सम् । वि॒षम् ॥५८.३॥
Mantra 4
अ॒यं यो व॒क्रो विप॑रु॒र्व्यङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑। तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥
अ॒यम् । य: । व॒क्र: । विऽप॑रु: । विऽअ॑ङ्ग: । मुखा॑नि । व॒क्रा । वृ॒जि॒ना । कृ॒णोषि॑ । तानि॑ । त्वम् । ब्र॒ह्म॒ण॒: । प॒ते॒ । इ॒षीका॑म्ऽइव । सम् । न॒म॒: ॥५८.४॥
Mantra 5
अ॑र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः। वि॒षं ह्यस्यादि॒ष्यथो॑ एनमजीजभम् ॥
अ॒र॒सस्य॑ । श॒र्कोट॑स्य । नी॒चीन॑स्य । उ॒प॒ऽसर्प॑त: । वि॒षम् । हि । अ॒स्य॒ । आ॒ऽअदि॑षि । अथो॒ इति॑ । ए॒न॒म् । अ॒जी॒ज॒भ॒म् ॥५८.५॥
Mantra 6
न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः। अथ॒ किं पा॒पया॑ऽमु॒या पुच्छे॑ बिभर्ष्यर्भ॒कम् ॥
न । ते॒ । बा॒ह्वो: । बल॑म् । अ॒स्ति॒ । न । शी॒र्षे । न । उ॒त । म॒ध्य॒त: । अथ॑ । किम् । पा॒पया॑ । अ॒मु॒या । पुच्छे॑ । बि॒भ॒र्षि॒ । अ॒र्भ॒कम् ॥५८.६॥
Mantra 7
अ॒दन्ति॑ त्वा पि॒पीलि॑का॒ वि वृ॑श्चन्ति मयू॒र्यः। सर्वे॑ भल ब्रवाथ॒ शार्को॑टमर॒सं वि॒षम् ॥
अ॒दन्ति॑ । त्वा॒ । पि॒पीलि॑का: । वि । वृ॒श्च॒न्ति॒ । म॒यू॒र्य᳡: । सर्वे॑ । भ॒ल॒ । ब्र॒वा॒थ॒ । शार्को॑टम् । अ॒र॒सम् । वि॒षम् ॥५८.७॥
Mantra 8
य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्येन च। आ॒स्ये॒ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ॥
य: । उ॒भाभ्या॑म् । प्र॒ऽहर॑सि । पुच्छे॑न । च॒ । आ॒स्ये᳡न । च॒ । आ॒स्ये᳡ । न । ते॒ । वि॒षम् । किम् । ऊं॒ इति॑ । ते॒ । पु॒च्छ॒ऽधौ । अ॒स॒त् ॥५८.८॥