Mantra with Swara
इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त। तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम् ॥
इ॒मा: । या: । ते॒ । श॒तम् । हि॒रा: । स॒हस्र॑म् । ध॒मनी॑: । उ॒त । तासा॑म् । ते॒ । सर्वा॑साम् । अ॒हम् । अश्म॑ना । बिल॑म् । अपि॑ । अ॒धा॒म् ॥३६.२॥
Mantra without Swara
इमा यास्ते शतं हिराः सहस्रं धमनीरुत। तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥
इमा: । या: । ते । शतम् । हिरा: । सहस्रम् । धमनी: । उत । तासाम् । ते । सर्वासाम् । अहम् । अश्मना । बिलम् । अपि । अधाम् ॥३६.२॥
