Mantra with Swara
वात॑रंहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा प॒त्सु ज॒वं द॑धातु ॥
वात॑ऽरंहा: । भ॒व॒ । वा॒जि॒न् । यु॒ज्यमा॑न: । इन्द्र॑स्य । या॒हि॒ । प्र॒ऽस॒वे । मन॑:ऽजवा: । यु॒ञ्जन्तु॑ । त्वा॒ । म॒रुत॑: । वि॒श्वऽवे॑दस: । आ । ते॒ । त्वष्टा॑ । प॒त्ऽसु । ज॒वम् । द॒धा॒तु॒ ॥९२.१॥
Mantra without Swara
वातरंहा भव वाजिन्युज्यमान इन्द्रस्य याहि प्रसवे मनोजवाः। युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वष्टा पत्सु जवं दधातु ॥
वातऽरंहा: । भव । वाजिन् । युज्यमान: । इन्द्रस्य । याहि । प्रऽसवे । मन:ऽजवा: । युञ्जन्तु । त्वा । मरुत: । विश्वऽवेदस: । आ । ते । त्वष्टा । पत्ऽसु । जवम् । दधातु ॥९२.१॥
