Mantra with Swara
येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न् ॥
येन॑ । अव॑पत् । स॒वि॒ता । क्षु॒रेण॑ । सोम॑स्य । राज्ञ॑: । वरु॑णस्य । वि॒द्वान् । तेन॑ । ब्र॒ह्मा॒ण॒: । व॒प॒त॒ । इ॒दम् । अ॒स्य । गोऽमा॑न् । अश्व॑ऽवान् । अ॒यम् । अ॒स्तु॒ । प्र॒जाऽवा॑न् ॥६८.३॥
Mantra without Swara
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्। तेन ब्रह्माणो वपतेदमस्य गोमानश्ववानयमस्तु प्रजावान् ॥
येन । अवपत् । सविता । क्षुरेण । सोमस्य । राज्ञ: । वरुणस्य । विद्वान् । तेन । ब्रह्माण: । वपत । इदम् । अस्य । गोऽमान् । अश्वऽवान् । अयम् । अस्तु । प्रजाऽवान् ॥६८.३॥
