Mantra with Swara
इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त। ते सौ॑धन्व॒नाः स्वरानशा॒नाः स्विष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥
इ॒दम् । तृ॒तीय॑म् । सव॑नम् । क॒वी॒नाम् । ऋ॒तेन॑ । ये । च॒म॒सम् । ऐर॑यन्त । ते । सौ॒ध॒न्व॒ना: । स्व᳡: । आ॒न॒शा॒ना: । सुऽइ॑ष्टिम् । न॒: । अ॒भि । वस्य॑: । न॒य॒न्तु॒॥४७.३॥
Mantra without Swara
इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त। ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥
इदम् । तृतीयम् । सवनम् । कवीनाम् । ऋतेन । ये । चमसम् । ऐरयन्त । ते । सौधन्वना: । स्व: । आनशाना: । सुऽइष्टिम् । न: । अभि । वस्य: । नयन्तु॥४७.३॥
