Mantra with Swara
नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑। अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ऽस्तु ते ॥
नम॑: । दे॒व॒ऽव॒धेभ्य॑: । नम॑: । रा॒ज॒ऽव॒धेभ्य॑: । अथो॒ इति॑ । ये । विश्या॑नाम् । व॒धा: । तेभ्य॑: । मृ॒त्यो॒ इति॑ । नम॑: । अ॒स्तु॒ । ते॒ ॥१३.१॥
Mantra without Swara
नमो देववधेभ्यो नमो राजवधेभ्यः। अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥
नम: । देवऽवधेभ्य: । नम: । राजऽवधेभ्य: । अथो इति । ये । विश्यानाम् । वधा: । तेभ्य: । मृत्यो इति । नम: । अस्तु । ते ॥१३.१॥
