Mantra with Swara
अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम्। भ॑द्रा॒हम॒स्मभ्यं॑ राज॒ञ्छक॑धूम॒ त्वं कृ॑धि ॥
अ॒हो॒रा॒त्राभ्या॑म् । नक्ष॑त्रेभ्य: । सू॒र्या॒च॒न्द्र॒मसा॑भ्याम् । भ॒द्र॒ऽअ॒हम् । अ॒स्मभ्य॑म् । रा॒ज॒न् । शक॑ऽधूम । त्वम् । कृ॒धि॒ ॥१२८.३॥
Mantra without Swara
अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम्। भद्राहमस्मभ्यं राजञ्छकधूम त्वं कृधि ॥
अहोरात्राभ्याम् । नक्षत्रेभ्य: । सूर्याचन्द्रमसाभ्याम् । भद्रऽअहम् । अस्मभ्यम् । राजन् । शकऽधूम । त्वम् । कृधि ॥१२८.३॥
