Mantra with Swara
जा॑नी॒त स्मै॑नं पर॒मे व्योम॒न्देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्तीष्टा॑पू॒र्तं स्म॑ कृणुता॒विर॑स्मै ॥
जा॒नी॒त । स्म॒ । ए॒न॒म् । प॒र॒मे । विऽओ॑मन् । देवा॑: । सध॑ऽस्था: । वि॒द । लो॒कम् । अत्र॑ । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । इ॒ष्टा॒पू॒र्तम् । स्म॒ । कृ॒णु॒त॒ । आ॒वि: । अ॒स्मै॒ ॥१२३.२॥
Mantra without Swara
जानीत स्मैनं परमे व्योमन्देवाः सधस्था विद लोकमत्र। अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥
जानीत । स्म । एनम् । परमे । विऽओमन् । देवा: । सधऽस्था: । विद । लोकम् । अत्र । अनुऽआगन्ता । यजमान: । स्वस्ति । इष्टापूर्तम् । स्म । कृणुत । आवि: । अस्मै ॥१२३.२॥
