Mantra with Swara
विश्व॑जित्कल्या॒ण्यै मा॒ परि॑ देहि। कल्या॑णि द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒द्यच्च॑ नः॒ स्वम् ॥
विश्व॑ऽजित् । क॒ल्या॒ण्यै᳡। मा॒ । परि॑ । दे॒हि॒ । कल्या॑णि । द्वि॒ऽपात् । च॒ । सर्व॑म् । न॒: । रक्ष॑ । चतु॑:ऽपात् । यत् । च॒ । न॒: । स्वम् ॥१०७.३॥
Mantra without Swara
विश्वजित्कल्याण्यै मा परि देहि। कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाद्यच्च नः स्वम् ॥
विश्वऽजित् । कल्याण्यै। मा । परि । देहि । कल्याणि । द्विऽपात् । च । सर्वम् । न: । रक्ष । चतु:ऽपात् । यत् । च । न: । स्वम् ॥१०७.३॥
