Mantra 1
अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः। वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ॥
अ॒ग्नि: । त॒क्मान॑म् । अप॑ । बा॒ध॒ता॒म् । इ॒त: । सोम॑: । ग्रावा॑ । वरु॑ण: । पू॒तऽद॑क्षा । वेदि॑: । ब॒र्हि: । स॒म्ऽइध॑: । शोशु॑चाना: । अप॑ । द्वेषां॑सि । अ॒मु॒या॒ । भ॒व॒न्तु॒ ॥२२.१॥
Mantra 2
अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्। अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒राङ् वा॒ परे॑हि ॥
अ॒यम् । य: । विश्वा॑न् । हरि॑तान् । कृ॒णोषि॑ । उ॒त्ऽशो॒चय॑न् । अ॒ग्नि:ऽइ॑व । अ॒भि॒ऽदु॒न्वन् । अध॑ । हि ।त॒क्म॒न् ।अ॒र॒स:। हि । भू॒या: । अध॑ । न्य᳡ङ् । अ॒ध॒राङ् । वा॒ । परा॑ । इ॒हि॒ ॥२२.२॥
Mantra 3
यः प॑रु॒षः पा॑रुषे॒योऽव॑ध्वं॒स इ॑वारु॒णः। त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥
य: । प॒रु॒ष: । पा॒रु॒षे॒य: । अ॒व॒ध्वं॒स:ऽइ॑व । अ॒रु॒ण: । त॒क्मान॑म् । वि॒श्व॒धा॒ऽवी॒र्य॒ । अ॒ध॒राञ्च॑म् । परा॑ । सु॒व॒ ॥२२.३॥
Mantra 4
अ॑ध॒राञ्चं॒ प्र हि॑णो॒मि नमः॑ कृ॒त्वा त॒क्मने॑। श॑कम्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान् ॥
अ॒ध॒राञ्च॑म् । प्र । हि॒नो॒मि॒ । नम॑: । कृ॒त्वा । त॒क्मने॑ । श॒क॒म्ऽभ॒रस्य॑ । मु॒ष्टि॒ऽहा । पुन॑: । ए॒तु॒ । म॒हा॒ऽवृ॒षान् ॥२२.४॥
Mantra 5
ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः। याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥
ओक॑: । अ॒स्य॒ । मूज॑ऽवन्त: । ओक॑: । अ॒स्य॒ । म॒हा॒ऽवृ॒षा: । याव॑त् । जा॒त: । त॒क्म॒न् । तावा॑न् । अ॒सि॒ । बल्हि॑केषु । नि॒ऽओ॒च॒र: ॥२२.५॥
Mantra 6
तक्म॒न्व्या॑ल॒ वि ग॑द॒ व्य॑ङ्ग॒ भूरि॑ यावय। दा॒सीं नि॒ष्टक्व॑रीमिच्छ॒ तां वज्रे॑ण॒ सम॑र्पय ॥
तक्म॑न् । विऽआ॑ल । वि । ग॒द॒ । विऽअ॑ङ्ग । भूरि॑ । य॒व॒य॒ । दा॒सीम् । नि॒:ऽतक्व॑रीम् । इ॒च्छ॒ । ताम् । वज्रे॑ण । सम् । अ॒र्प॒य॒ ॥२२.६।
Mantra 7
तक्म॒न्मूज॑वतो गच्छ॒ बल्हि॑कान्वा परस्त॒राम्। शू॒द्रामि॑च्छ प्रप॒र्व्यं॑ तां त॑क्म॒न्वीव॑ धूनुहि ॥
तक्म॑न् । मूज॑ऽवत: । ग॒च्छ॒ । बल्हि॑कान् । वा॒ । प॒र॒:ऽत॒राम् ।शू॒द्राम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य᳡म् । तान् । त॒क्म॒न् । विऽइ॑व । धू॒नु॒हि॒ ॥२२.७॥
Mantra 8
म॑हावृ॒षान्मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑। प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा ॥
म॒हा॒ऽवृ॒षान् । मूज॑ऽवत: । बन्धु॑।अ॒ध्दि॒ । प॒रा॒ऽइत्य॑ ।प्र । ए॒तानि॑ । त॒क्मने॑ । ब्रू॒म॒: । अ॒न्य॒ऽक्षे॒त्राणि॑ । वै । इ॒मा ॥२२.८॥
Mantra 9
अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः। अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ॥
अ॒न्य॒ऽक्षे॒त्रे । न । र॒म॒से॒ । व॒शी । सन् । मृ॒ड॒य॒सि॒ । न॒: । अभू॑त् । ऊं॒ इति॑ । प्र॒ऽअर्थ॑: । त॒क्मा । स: । ग॒मि॒ष्य॒ति॒ । बल्हि॑कान् ॥२२.९॥
Mantra 10
यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥
यत् । त्वम् । शी॒त: । अथो॒ इति॑ । रू॒र: । स॒ह । का॒सा । अवे॑पय: । भी॒मा: । ते॒ । त॒क्म॒न् । हे॒तय॑: । ताभि॑: । स्म॒ । परि॑ । वृ॒ङ्गि॒ध । न॒: ॥२२.१०॥
Mantra 11
मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्। मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥
मा । स्म॒ । ए॒तान् । सखी॑न् । कु॒रु॒था॒: । ब॒लास॑म् । का॒सम् । उ॒त्ऽयु॒गम् । मा । स्म॒ । अत॑: । अ॒र्वाङ् । आ । ऐ॒: । पुन॑: । तत् । त्वा॒ । त॒क्म॒न् । उप॑ । ब्रु॒वे॒ ॥२२.११॥
Mantra 12
तक्म॒न्भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह। पा॒प्मा भ्रातृ॑व्येण स॒ह गच्छा॒मुमर॑णं॒ जन॑म् ॥
तक्म॑न् । भ्रात्रा॑ । ब॒लासे॑न् । स्वस्रा॑ । कासि॑कया । स॒ह । पा॒प्मा । भ्रातृ॑व्येण । स॒ह । गच्छ॑ । अ॒मुम् । अर॑णम् । जन॑म् ॥२२.१२॥
Mantra 13
तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥
तृती॑यकम् । वि॒ऽतृ॒ती॒यम् । स॒द॒म्ऽदिम् । उ॒त । शा॒र॒दम् । त॒क्मान॑म् । शी॒तम् । रू॒रम् । ग्रैष्म॑म् । ना॒श॒य॒ । वार्षि॑कम् ॥२२.१३॥
Mantra 14
ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः। प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥
ग॒न्धारि॑भ्य: । मूज॑वत्ऽभ्य:। अङ्गे॑भ्य: । म॒गधे॑भ्य: । प्र॒ऽए॒ष्यन् । जन॑म्ऽइव । शे॒व॒ऽधिम् ।त॒क्मान॑म् । परि॑ । द॒द्म॒सि॒ ॥२२.१४॥