Mantra 1
विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे। वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥
विऽहृ॑दयम् । वै॒म॒न॒स्य । वद॑ । अ॒मित्रे॑षु । दु॒न्दु॒भे॒ । वि॒ऽद्वे॒षम् । कश्म॑शम् । भ॒यम् । अ॒मित्रे॑षु । नि । द॒ध्म॒सि॒। अव॑ । ए॒ना॒न् । दु॒न्दु॒भे॒ । ज॒हि॒ ॥२१.१॥
Mantra 2
उ॒द्वेप॑माना॒ मन॑सा॒ चक्षु॑षा॒ हृद॑येन च। धाव॑न्तु॒ बिभ्य॑तो॒ऽमित्राः॑ प्रत्रा॒सेनाज्ये॑ हु॒ते ॥
उ॒त्ऽवेष॑माना: । मन॑सा । चक्षु॑षा । हृद॑येन । च॒ । धाव॑न्तु । बिभ्य॑त: ।अ॒मित्रा॑: । प्र॒ऽत्रा॒सेन॑ । आज्ये॑ । हु॒ते ॥२१.२॥
Mantra 3
वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिर्वि॒श्वगो॑त्र्यः। प्र॑त्रा॒सम॒मित्रे॑भ्यो व॒दाज्ये॑ना॒भिघा॑रितः ॥
वा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वि॒श्वऽगो॑त्र्य: । प्र॒ऽत्रा॒सम् । अ॒मित्रे॑भ्य: । व॒द॒ । आज्ये॑न । अ॒भिऽघा॑रित: ॥२१.३॥
Mantra 4
यथा॑ मृ॒गाः सं॑वि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि॑। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
यथा॑ । मृ॒गा: । स॒म्ऽवि॒जन्ते॑ । आ॒र॒ण्या: । पुरु॑षात् ।अधि॑ । ए॒व । त्वम् । दु॒न्दु॒भे॒ । अ॒मित्रा॑न् । अ॒भि । क्र॒न्द॒ । प्र । त्रा॒स॒य॒ । अथो॒ऽइति॑ । चि॒त्तानि॑ । मो॒ह॒य॒ ॥२१.४॥
Mantra 5
यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
यथा॑ । वृका॑त् । अ॒ज॒ऽअ॒वय॑: । धाव॑न्ति । ब॒हु । बिभ्य॑ती: । । ए॒व । त्वम् । दु॒न्दु॒भे॒ । अ॒मित्रा॑न् । अ॒भि । क्र॒न्द॒ । प्र । त्रा॒स॒य॒ । अथो॒ऽइति॑ । चि॒त्तानि॑ । मो॒ह॒य॒ ॥२१.५॥
Mantra 6
यथा॑ श्ये॒नात्प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
यथा॑ । श्ये॒नात् । प॒त॒त्रिण॑: । स॒म्ऽवि॒जन्ते॑ । अह॑:ऽदिवि । सिं॒हस्य॑ । स्त॒नथो॑: । यथा॑ । ए॒व । त्वम् । दु॒न्दु॒भे॒ । अ॒मित्रा॑न् । अ॒भि । क्र॒न्द॒ । प्र । त्रा॒स॒य॒ । अथो॒ इति॑ । चि॒त्तानि॑ । मो॒ह॒य॒ ॥२१.६॥
Mantra 7
परा॒मित्रा॑न्दुन्दु॒भिना॑ हरि॒णस्या॒जिने॑न च। सर्वे॑ दे॒वा अ॑तित्रस॒न्ये सं॑ग्रा॒मस्येश॑ते ॥
परा॑ । अ॒मित्रा॑न् । दु॒न्दु॒भिना॑ । ह॒रि॒णस्य॑ । अ॒जिने॑न । च॒ । सर्वे॑ । दे॒वा: । अ॒ति॒त्र॒स॒न् । ये । स॒म्ऽग्रा॒मस्य॑ । ईश॑ते ॥२१.७॥
Mantra 8
यैरिन्द्रः॑ प्र॒क्रीड॑ते पद्घो॒षैश्छा॒यया॑ स॒ह। तैर॒मित्रा॑स्त्रसन्तु नो॒ऽमी ये यन्त्य॑नीक॒शः ॥
यै: । इन्द्र॑: । प्र॒ऽक्रीड॑ते । प॒त्ऽघो॒षै: । छा॒यया॑ । स॒ह । तै: । अ॒मित्रा॑: । त्र॒स॒न्तु॒ । न॒: । अ॒मी इति॑ । ये । यन्ति॑ । अ॒नी॒क॒ऽश: ॥२१.८॥
Mantra 9
ज्या॑घो॒षा दु॑न्दु॒भयो॒ऽभि क्रो॑शन्तु॒ या दिशः॑। सेनाः॒ परा॑जिता य॒तीर॒मित्रा॑णामनीक॒शः ॥
ज्या॒ऽघो॒षा: । दु॒न्दु॒भय॑: । अ॒भि । क्रो॒श॒न्तु॒ । या: । दिश॑: । सेना॑:। परा॑ऽजिता: । य॒ती: । अ॒मित्रा॑णाम् । अ॒नी॒क॒ऽश: ॥२१.९॥
Mantra 10
आदि॑त्य॒ चक्षु॒रा द॑त्स्व॒ मरी॑च॒योऽनु॑ धावत। प॑त्स॒ङ्गिनी॒रा स॑जन्तु॒ विग॑ते बाहुवी॒र्ये॑ ॥
आदि॑त्य । चक्षु॑: । आ । द॒त्स्व॒ । मरी॑चय: । अनु॑ । धा॒व॒त॒ । प॒त्ऽस॒ङ्गिनी॑: । आ । स॒ज॒न्तु॒ । विऽग॑ते । बा॒हु॒ऽवी॒र्ये᳡ ॥२१.१०॥
Mantra 11
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्। सोमो॒ राजा॒ वरु॑णो॒ राजा॑ महादे॒व उ॒त मृ॒त्युरिन्द्रः॑ ॥
यू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । पृ॒श्नि॒ऽमा॒त॒र॒: । इन्द्रे॑ण । यु॒जा । प्र । मृ॒णी॒त॒ । शत्रू॑न् । सोम॑:। राजा॑ । वरु॑ण: । राजा॑ । म॒हा॒ऽदे॒व: । उ॒त । मृ॒त्यु: । इन्द्र॑: ॥२१.११॥
Mantra 12
ए॒ता दे॑वसे॒नाः सूर्य॑केतवः॒ सचे॑तसः। अ॒मित्रा॑न्नो जयन्तु॒ स्वाहा॑ ॥
ए॒ता:। दे॒व॒ऽसे॒ना: । सूर्य॑ऽकेतव: । सऽचे॑तस: । अ॒मित्रा॑न् । न: । ज॒य॒न्तु॒ । स्वाहा॑ ॥२१.१२॥