Mantra 1
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः। आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
सम्ऽइ॑ध्द: । अ॒द्य । मनु॑ष: । दु॒रो॒णे । दे॒व: । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒द॒: ।आ । च॒ । वह॑ । मि॒त्र॒ऽम॒ह॒: । चि॒कि॒त्वान् । त्वम् । दू॒त: । क॒वि: । अ॒सि॒ । प्रऽचे॑ता: ॥१२.१॥
Mantra 2
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व। मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥
तनू॑ऽनपात् । प॒थ: । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ । मन्मा॑नि । धी॒भि: । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । न॒: ॥१२.२॥
Mantra 3
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑। त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥
आ॒ऽजुह्वा॑न: । ईड्य॑: । वन्द्य॑ । च॒ । आ। या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभि: । स॒ऽजोषा॑: । त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । स: । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒त: । यजी॑यान् ॥१२.३॥
Mantra 4
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्। व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥
प्रा॒चीन॑म् । ब॒र्हि: । प्र॒ऽदिशा॑ । पृ॒थि॒व्या: । वस्तो॑: । अ॒स्या: । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् । वि ।ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑य: । दे॒वेभ्य॑: । अदि॑तये । स्यो॒नम् ॥१२.४॥
Mantra 5
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः। देवी॑र्द्वारो बृह॒तीर्वि॑श्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥
व्यच॑स्वती: । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्य: । न । जन॑य: । शुम्भ॑माना: । देवी॑: । द्वा॒र॒: । बृ॒ह॒ती॒: । वि॒श्व॒म्ऽइ॒न्वा॒: । दे॒वेभ्य॑: । भ॒व॒त॒ । सु॒ऽप्रा॒य॒ना: ॥१२.५॥
Mantra 6
आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑। दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥
आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उ॒पाके॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । दि॒व्ये इति॑ । योष॑ण॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने॒ इति॑ ॥१२.६॥
Mantra 7
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै। प्र॑चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥
दैव्या॑ । होता॑रा । प्र॒थ॒मा । सु॒ऽवाचा॑ । मिमा॑ना । य॒ज्ञम् । मनु॑ष: । यज॑ध्यै । प्र॒ऽचो॒दय॑न्ता । वि॒दथे॑षु । का॒रू इति॑ । प्रा॒चीन॑म् । ज्योति॑: । प्र॒ऽदिशा॑ । दि॒शन्ता॑ ॥१२.७॥
Mantra 8
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ॥
आ । न॒: । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इडा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती । ति॒स्र: । दे॒वी: । ब॒र्हि: । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती: । सु॒ऽअप॑स: । स॒द॒न्ता॒म् ॥१२.८॥
Mantra 9
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑। तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
य: । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पै: । अपि॑शत् । भुव॑नानि । विश्वा॑ । तम् । अ॒द्य । हो॒त॒: । इ॒षि॒त: । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥१२.९॥
Mantra 10
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑। वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥
उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथ॑: । ऋ॒तु॒ऽथा । ह॒वींषि॑ ।वन॒स्पति॑: । श॒मि॒ता । दे॒व: । अ॒ग्नि: । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥१२.१०॥
Mantra 11
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः। अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥
स॒द्य: । जा॒त: । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्नि: । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒र॒:ऽगा: । अ॒स्य । होतु॑: । प्र॒ऽशिषि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒वि: । अ॒द॒न्तु॒ । दे॒वा: ॥१२.११॥