Mantra 1
क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः। पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान्पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः ॥
क॒थम् । म॒हे । असु॑राय । अ॒ब्र॒वी॒: । इ॒ह । क॒थम् । पि॒त्रे । हर॑ये । त्वे॒षऽनृ॑म्ण: ।पृश्नि॑म् । व॒रु॒ण॒ । दक्षि॑णाम् ।द॒दा॒वान् । पुन॑:ऽमघ । त्वम् । मन॑सा । अ॒चि॒कि॒त्सी॒: ॥११.१॥
Mantra 2
न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे। केन॒ नु त्वम॑थर्व॒न्काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः ॥
न । कामे॑न । पुन॑:ऽमघ: । भ॒वा॒मि॒ । सम् । च॒क्षे॒ । कम् । पृश्नि॑म् । ए॒ताम् । उप॑ । अ॒जे॒ । केन॑ । नु । त्वम् । अ॒थ॒र्व॒न् । काव्ये॑न । केन॑ । जा॒तेन॑ । अ॒सि॒ । जा॒तऽवे॑दा: ॥११.२॥
Mantra 3
स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः। न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ॥
स॒त्यम् । अ॒हम् ।ग॒भी॒र: । काव्ये॑न । स॒त्यम् । जा॒तेन॑ । अ॒स्मि॒ । जा॒तऽवे॑दा: । न । मे॒ । दा॒स: । न । आर्य॑: । म॒हि॒ऽत्वा । व्र॒तम् । मी॒मा॒य॒ । यत् । अ॒हम् । ध॒रि॒ष्ये ॥११.३॥
Mantra 4
न त्वद॒न्यः क॒वित॑रो॒ न मे॒धया॒ धीर॑तरो वरुण स्वधावन्। त्वं ता विश्वा॒ भुव॑नानि वेत्थ॒ स चि॒न्नु त्वज्जनो॑ मा॒यी बि॑भाय ॥
न । त्वत् । अ॒न्य: । क॒विऽत॑र: । न । मे॒धया॑ । धीर॑ऽतर: । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । त्वम् । ता । विश्वा॑ । भुव॑नानि । वे॒त्थ॒ । स: । चि॒त् । नु । त्वत् । जन॑: । मा॒यी। बि॒भा॒य॒ ॥११.४॥
Mantra 5
त्वं ह्यङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑मा सुप्रणीते। किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ॥
त्वम् । हि । अ॒ङ्ग । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । विश्वा॑ । वेत्थ॑ । जनि॑म । सु॒ऽप्र॒नी॒ते॒ । किम् । रज॑स: । ए॒ना । प॒र: । अ॒न्यत् । अ॒स्ति॒ । ए॒ना । किम् । परे॑ण । अव॑रम् । अ॒मु॒र॒॥११.५॥
Mantra 6
एकं॒ रज॑स ए॒ना प॒रो अ॒न्यदस्त्ये॒ना प॒र एके॑न दु॒र्णशं॑ चिद॒र्वाक्। तत्ते॑ वि॒द्वान्व॑रुण॒ प्र ब्र॑वीम्य॒धोव॑चसः प॒णयो॑ भवन्तु नी॒चैर्दा॒सा उप॑ सर्पन्तु॒ भूमि॑म् ॥
एक॑म् । रज॑स: । ए॒ना । प॒र: । अ॒न्यत् । अस्ति॑ । ए॒ना । प॒र: । एके॑न । दु॒:ऽनश॑म् । चि॒त् । अ॒वाक् । तत् । ते॒ । वि॒द्वान् । व॒रु॒ण॒ । प्र । ब्र॒वी॒मि॒ । अ॒ध:ऽव॑चस: । प॒णय॑: । भ॒व॒न्तु॒ । नी॒चै: । दा॒सा: । उप॑ । स॒र्प॒न्तु॒ । भूमि॑म् ॥११.६॥
Mantra 7
त्वं ह्यङ्ग व॑रुण॒ ब्रवी॑षि॒ पुन॑र्मघेष्वव॒द्यानि॒ भूरि॑। मो षु प॒णीँर॑भ्ये॒ताव॑तो भू॒न्मा त्वा॑ वोचन्नरा॒धसं॒ जना॑सः ॥
त्वम् । हि । अ॒ङ्ग । व॒रु॒ण॒ । ब्रवी॑षि । पुन॑:ऽमघेषु । अ॒व॒द्यानि॑ । भूरि॑ । मो इति॑ । सु । प॒णीन् । अ॒भि । ए॒ताव॑त: । भू॒त् । मा । त्वा॒ । वो॒च॒न् । अ॒रा॒धस॑म् । जना॑स: ॥११.७॥
Mantra 8
मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि। स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु ॥
मा । मा॒ । वो॒च॒न् । अ॒रा॒धस॑म् । जना॑स: । पुन॑: । ते॒ । पृश्नि॑म् । ज॒रि॒त॒: । द॒दा॒मि॒ । स्तो॒त्रम् । मे॒ । विश्व॑म् । आ । या॒हि॒ । शची॑भि: । अ॒न्त: । विश्वा॑सु । मानु॑षीषु । दि॒क्षु॥११.८॥
Mantra 9
आ ते॑ स्तो॒त्राण्युद्य॑तानि यन्त्व॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु। दे॒हि नु मे॒ यन्मे॒ अद॑त्तो॒ असि॒ युज्यो॑ मे स॒प्तप॑दः॒ सखा॑सि ॥
आ । ते॒ । स्तो॒त्राणि॑ । उत्ऽय॑तानि । य॒न्तु॒ । अ॒न्त: । विश्वा॑सु । मानु॑षीषु। दि॒क्षु। दे॒हि। नु । मे॒ । यत् । मे॒ । अद॑त्त: । असि॑ । युज्य॑ । मे॒ । स॒प्तऽप॑द: । सखा॑। अ॒सि॒ ॥११.९॥
Mantra 10
स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद्यन्ना॑वे॒षा स॒मा जा। ददा॑मि॒ तद्यत्ते॒ अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि ॥
स॒मा । नौ॒ । बन्धु॑: । व॒रु॒ण॒ । स॒मा । जा । वेद॑ । अ॒हम् ।तत् । यत् । नौ॒ । ए॒षा । स॒मा । जा । ददा॑मि । तत् । यत् । ते॒ । अद॑त्त: । अस्मि॑ । युज्य॑: । ते॒ । स॒प्तऽप॑द: । सखा॑ । अ॒स्मि॒ ॥११.१०॥
Mantra 11
दे॒वो दे॒वाय॑ गृण॒ते व॑यो॒धा विप्रो॒ विप्रा॑य स्तुव॒ते सु॑मे॒धाः। अजी॑जनो॒ हि व॑रुण स्वधाव॒न्नथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुम्। तस्मा॑ उ॒ राधः॑ कृणुहि सुप्रश॒स्तं सखा॑ नो असि पर॒मं च॒ बन्धुः॑ ॥
दे॒व: । दे॒वाय॑ । गृ॒ण॒ते । व॒य॒:ऽधा: । विप्र॑: । विप्रा॑य । स्तु॒व॒ते । सु॒ऽमे॒धा: । अजी॑जन: । हि । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । अथ॑र्वाणम् । पि॒तर॑म् । दे॒वऽब॑न्धुम् । तस्मै॑ । ऊं॒ इति॑ । राध॑: । कृ॒णु॒हि॒ । सु॒ऽप्र॒श॒स्तम् । सखा॑ । न॒: । अ॒सि॒ । प॒र॒मम् । च॒ । बन्धु॑: ॥११.११॥