Mantra 1
तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रो वृषा॑। यो नो॑ दुर॒स्याद्दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात् ॥
तान् । स॒त्यऽओ॑जा: । प्र । द॒ह॒तु॒ । अ॒ग्नि: । वै॒श्वा॒न॒र: । वृषा॑ । य: । न॒: । दु॒र॒स्यात् । दिप्सा॑त् । च॒ । अथो॒ इति॑ । य: । न॒: । अ॒रा॒ति॒ऽयात् ॥३६.१॥
Mantra 2
यो नो॑ दि॒प्सददि॑प्सतो॒ दिप्स॑तो॒ यश्च॒ दिप्स॑ति। वै॑श्वान॒रस्य॒ दंष्ट्र॑योर॒ग्नेरपि॑ दधामि॒ तम् ॥
य: । न॒: । दिप्सा॑त् । अदि॑प्सत: । दिप्स॑त: । य: । च॒ । दिप्स॑ति ।वै॒श्वा॒न॒रस्य॑ । दंष्ट्र॑यो: । अ॒ग्ने । अपि॑ । द॒धा॒मि॒ । तम् ॥३६.२॥
Mantra 3
य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शेऽमा॑वा॒स्ये॑। क्र॒व्यादो॑ अ॒न्यान्दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ॥
ये । आ॒ऽग॒रे । मृ॒गय॑न्ते । प्र॒ति॒ऽक्रो॒शे । अ॒मा॒ऽवा॒स्ये᳡ ।क्र॒व्य॒ऽअद॑: । अ॒न्यान् । दिप्स॑त: । सर्वा॑न् । तान् । सह॑सा । स॒हे॒ ॥३६.३॥
Mantra 4
सहे॑ पिशा॒चान्त्सह॒सैषां॒ द्रवि॑णं ददे। सर्वा॑न्दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिरृध्यताम् ॥
सहे॑ । पि॒शा॒चान् । सह॑सा । आ । ए॒षा॒म् । द्रवि॑णम् । द॒दे॒ । सर्वा॑न् । दु॒र॒स्य॒त: । ह॒न्मि॒ । सम् । मे॒ । आऽकू॑ति: । ऋ॒ध्य॒ता॒म् ॥३६.४॥
Mantra 5
ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम्। न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ॥
ये । दे॒वा: । तेन॑ । हास॑न्ते । सूर्ये॑ण । मि॒म॒ते॒ । ज॒वम् । न॒दीषु॑ । पर्व॑तेषु । ये । सम् । तै: । प॒शुऽभि॑: । वि॒दे॒ ॥३६.५॥
Mantra 6
तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव। श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ॥
तप॑न: । अ॒स्मि॒ । पि॒शा॒चाना॑म् । व्या॒घ्र: । गोम॑ताम्ऽइव । श्वान॑: । सिं॒हम्ऽइ॑व । दृ॒ष्ट्वा । ते । न । वि॒न्द॒न्ते॒ । नि॒ऽअञ्च॑नम्॥३६.६॥
Mantra 7
न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑। पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥
न । पि॒शा॒चै: । सम् । श॒क्नो॒मि॒ । न । स्ते॒नै: । न । व॒न॒र्गुऽभि॑: ।पि॒शा॒चा: । तस्मा॑त् । न॒श्य॒न्ति॒ । यम् । अ॒हम् । ग्राम॑म् । आ॒ऽवि॒शे ॥३६.७॥
Mantra 8
यं ग्राम॑मावि॒शत॑ इ॒दमु॒ग्रं सहो॒ मम॑। पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ न पा॒पमुप॑ जानते ॥
यम् । ग्राम॑म् । आ॒ऽवि॒शते॑ । इ॒दम् । उ॒ग्रम् । सह॑: । मम॑ । पि॒शा॒चा: । तस्मा॑त् । न॒श्य॒न्ति॒ । न । पा॒पम् । उप॑ । जा॒न॒ते॒ ॥३६.८॥
Mantra 9
ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव। तान॒हं म॑न्ये॒ दुर्हि॑ता॒ञ्जने॒ अल्प॑शयूनिव ॥
ये । मा॒ । क्रो॒धय॑न्ति । ल॒पि॒ता: । ह॒स्तिन॑म्। म॒शका॑:ऽइव । तान् । अ॒हम् । म॒न्ये॒ । दु:ऽहि॑तान् । जने॑ । अल्प॑शयून्ऽइव॥३६.९॥
Mantra 10
अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिवाश्वाभि॒धान्या॑। म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्न मु॑च्यते ॥
अ॒भि । तम् । नि:ऽऋ॑ति: । ध॒त्ता॒म् । अश्व॑म्ऽइव । अ॒श्व॒ऽअ॒भि॒धान्या॑ । म॒ल्व: । य: । मह्य॑म् । क्रुध्य॑ति । स: । ऊं॒ इति॑ । पाशा॑त् । न । मु॒च्य॒ते॒ ॥३६.१०॥