Mantra 1
यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणेऽप॑चत्। यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
यम् । ओ॒द॒नम् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । प्र॒जाऽप॑ति: । तप॑सा । ब्र॒ह्मणे॑ । अप॑चत् । य: । लो॒काना॑म् । विऽधृ॑ति: । न । अ॒भि॒ऽरेषा॑त् । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.१॥
Mantra 2
येनात॑रन्भूत॒कृतोऽति॑ मृ॒त्युं यम॒न्ववि॑न्द॒न्तप॑सा॒ श्रमे॑ण। यं प॒पाच॑ ब्र॒ह्मणे॒ ब्रह्म॒ पूर्वं॒ तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
येन॑ । अत॑रन् । भू॒त॒ऽकृत॑: । अति॑ । मृ॒त्युम् । यम् । अ॒नु॒ऽअवि॑न्दन् । तप॑सा । श्रमे॑ण । यम् । प॒पाच॑ । ब्र॒ह्मणे॑ । ब्रह्म॑ । पूर्व॑म् । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.२॥
Mantra 3
यो दा॒धार॑ पृथि॒वीं वि॒श्वभो॑जसं॒ यो अ॒न्तरि॑क्ष॒मापृ॑णा॒द्रसे॑न। यो अस्त॑भ्ना॒द्दिव॑मू॒र्ध्वो म॑हि॒म्ना ते॑नौद॒नेनाति॑ तराणि मृ॒त्युम् ॥
य: । दा॒धार॑ । पृ॒थि॒वीम् । वि॒श्वऽभो॑जसम् । य: । अ॒न्तरि॑क्षम् । आ॒ऽअपृ॑णात् । रसे॑न । य: । अस्त॑भ्नात् । दिव॑म् । ऊ॒र्ध्व: । म॒हि॒म्ना । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.३॥
Mantra 4
यस्मा॒न्मासा॒ निर्मि॑तास्त्रिं॒शद॑राः संवत्स॒रो यस्मा॒न्निर्मि॑तो॒ द्वाद॑शारः। अ॑होरा॒त्रा यं प॑रि॒यन्तो॒ नापुस्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
यस्मा॑त् । मासा॑: । नि:ऽमि॑ता । त्रिं॒शत्ऽअ॑रा: । स॒म्ऽव॒त्स॒र: । यस्मा॑त् । नि:ऽर्मि॑त: । द्वाद॑शऽअर: । अ॒हो॒रा॒त्रा: । यम् । प॒रि॒ऽयन्त॑: । न । आ॒पु: । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.४॥
Mantra 5
यः प्रा॑ण॒दः प्रा॑ण॒दवा॑न्ब॒भूव॒ यस्मै॑ लो॒का घृ॒तव॑न्तः॒ क्षर॑न्ति। ज्योति॑ष्मतीः प्र॒दिशो॒ यस्य॒ सर्वा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
य: । प्रा॒ण॒द: । प्रा॒ण॒दऽवा॑न् । ब॒भूव॑ । यस्मै॑ । लो॒का: । घृ॒तऽव॑न्त: । क्षर॑न्ति । ज्योति॑ष्मती: । प्र॒ऽदिश॑: । यस्य॑ । सर्वा॑: । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.५॥
Mantra 6
यस्मा॑त्प॒क्वाद॒मृतं॑ संब॒भूव॒ यो गा॑य॒त्र्या अधि॑पतिर्ब॒भूव॑। यस्मि॒न्वेदा॒ निहि॑ता वि॒श्वरू॑पा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
यस्मा॑त् । प॒क्वात् । अ॒मृत॑म् । स॒म्ऽब॒भूव॑ । य: । गा॒य॒त्र्या: । अधि॑ऽपति: । ब॒भूव॑ । यस्मि॑न् । वेदा॑: । निऽहि॑ता: । वि॒श्वऽरू॑पा: । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.६॥
Mantra 7
अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मेऽप॑ ते भवन्तु। ब्र॑ह्मौद॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ॥
अव॑ । बा॒धे॒ । द्वि॒षन्त॑म् । दे॒व॒ऽपी॒युम् । स॒ऽपत्ना॑: । ये । मे॒ । अप॑ । ते । भ॒व॒न्तु॒ । ब्र॒ह्म॒ऽओ॒द॒नम् । वि॒श्व॒ऽजित॑म् । प॒चा॒मि॒ । शृ॒ण्वन्तु॑ । मे॒ । श्र॒त्ऽदधा॑नस्य । दे॒वा: ॥३५.७॥