Mantra with Swara
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः। भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥
सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् ।अ॒स्मभ्य॑म् । ध॒त्ता॒म् । वरु॑ण: । च॒ । म॒न्यु: । भिय॑: । दधा॑ना: । हृद॑येषु । शत्र॑व: । परा॑जितास: । अप॑ । नि । ल॒य॒न्ता॒म् ॥३१.७॥
Mantra without Swara
संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः। भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥
सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् ।अस्मभ्यम् । धत्ताम् । वरुण: । च । मन्यु: । भिय: । दधाना: । हृदयेषु । शत्रव: । पराजितास: । अप । नि । लयन्ताम् ॥३१.७॥
