Mantra with Swara
यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति। प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम् ॥
य: । अ॒द्य । स्ते॒न: । आ॒ऽअय॑ति । स: । सम्ऽपि॑ष्ट: । अप॑ । अ॒य॒ति॒ । प॒थाम् । अ॒प॒ऽध्वं॒सेन॑ । ए॒तु॒ । इन्द्र॑: । वज्रे॑ण । ह॒न्तु॒ । तम् ॥३.५॥
Mantra without Swara
यो अद्य स्तेन आयति स संपिष्टो अपायति। पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥
य: । अद्य । स्तेन: । आऽअयति । स: । सम्ऽपिष्ट: । अप । अयति । पथाम् । अपऽध्वंसेन । एतु । इन्द्र: । वज्रेण । हन्तु । तम् ॥३.५॥
