Mantra 1
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥
आ । गाव॑: । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ । प्र॒जाऽव॑ती: । पु॒रु॒ऽरूषा॑: । इ॒ह । स्यु॒: । इन्द्रा॑य । पू॒र्वी: । उ॒षस॑: । दुहा॑ना: ॥२१.१॥
Mantra 2
इन्द्रो॒ यज्व॑ने गृण॒ते च॒ शिक्ष॑त॒ उपेद्द॑दाति॒ न स्वं मु॑षायति। भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॑न्नभि॒न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥
इन्द्र॑: । यज्व॑ने । गृ॒ण॒ते । च॒ । शिक्ष॑ते । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ । भूय॑:ऽभूय: । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अ॒भि॒न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥२१.२॥
Mantra 3
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्य॒थिरा द॑धर्षति। दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥
न । ता: । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑र: । न । आ॒सा॒म् । आ॒मि॒त्र: । व्य॒थि: । आ । द॒ध॒र्ष॒ति॒ । दे॒वान् । च॒ । याभि॑: । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभि॑: । स॒च॒ते॒ । गोऽप॑ति: । स॒ह ॥२१.३॥
Mantra 4
न ता अर्वा॑ रे॒णुक॑काटोऽश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि। उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥
न । ता: । अर्वा॑ । रे॒णुक॑ऽकाट: । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒त्रम् । उप॑ । य॒न्ति॒ । ता: । अ॒भि । उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ता: । अनु॑ । गाव॑: । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑न: ॥२१.४॥
Mantra 5
गावो॒ भगो॒ गाव॒ इन्द्रो॑ म इछा॒द्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः। इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामि॑ हृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥
गाव॑: । भग॑: । गाव॑: । इन्द्र॑: । मे॒ । इ॒च्छा॒त् । गाव॑: । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्ष: । इ॒मा: । या: । गाव॑: । स: । ज॒ना॒स॒: । इन्द्र॑: । इ॒च्छामि॑ । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥२१.५॥
Mantra 6
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम्। भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥
यू॒यम् । गा॒व: । मे॒द॒य॒थ॒ । कृ॒शन् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् । भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒च॒: । बृ॒हत् । व॒: । वय॑: । उ॒च्य॒ते॒ । स॒भासु॑ ॥२१.६॥
Mantra 7
प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः। मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ॥
प्र॒जाऽव॑ती: । सु॒ऽयव॑से । रु॒शन्ती॑: । शु॒ध्दा: । अ॒प: । सु॒ऽप्र॒पा॒ने । पिब॑न्ती: । मा । व॒: । स्ते॒न: । ई॒श॒त॒ । मा । अ॒घऽशं॑स: । परि॑ । व॒: । रु॒द्रस्य॑ । हे॒ति: । वृ॒ण॒क्तु॒ ॥२१.७॥