Mantra with Swara
त्राय॑न्तामि॒मं दे॒वास्त्राय॑न्तां म॒रुतां॑ ग॒णाः। त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥
त्राय॑न्ताम् । इ॒मम् । दे॒वा: । त्राय॑न्ताम् । म॒रुता॑म् । ग॒णा: । त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पा: । अस॑त् ॥१३.४॥
Mantra without Swara
त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः। त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥
त्रायन्ताम् । इमम् । देवा: । त्रायन्ताम् । मरुताम् । गणा: । त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपा: । असत् ॥१३.४॥
