Mantra with Swara
मि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततुः। दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ॥
मि॒त्र: । च॒ । वरु॑ण: । च॒ । इन्द्र॑: । रु॒द्र: । च॒ । चे॒त॒तु॒ । दे॒वास॑: । वि॒श्वऽधा॑यस: । ते । मा॒ । अ॒ञ्ज॒न्तु॒। वर्च॑सा ॥२२.२॥
Mantra without Swara
मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततुः। देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥
मित्र: । च । वरुण: । च । इन्द्र: । रुद्र: । च । चेततु । देवास: । विश्वऽधायस: । ते । मा । अञ्जन्तु। वर्चसा ॥२२.२॥
