Mantra with Swara
इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू। आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥
इन्द्र॑: । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒णऽव॒सू इति॑ वृषण्ऽवसू ॥ आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑व: । सु॒ऽआ॒भुव॑: । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥१३.१॥
Mantra without Swara
इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू। आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥
इन्द्र: । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषणऽवसू इति वृषण्ऽवसू ॥ आ । वाम् । विशन्तु । इन्दव: । सुऽआभुव: । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥१३.१॥
