Mantra with Swara
इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥
इन्द्र॑: । तु॒रा॒षाट् । मि॒त्र: । वृ॒त्रम् । य: । ज॒घान॑ । य॒ती: । न । बि॒भेद॑ । व॒लम् । भृगु॑: । न । स॒स॒हे॒ । शत्रू॑न् । मदे॑ । सोम॑स्य ॥५.३॥
Mantra without Swara
इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न। बिभेद वलं भृगुर्न ससहे शत्रून्मदे सोमस्य ॥
इन्द्र: । तुराषाट् । मित्र: । वृत्रम् । य: । जघान । यती: । न । बिभेद । वलम् । भृगु: । न । ससहे । शत्रून् । मदे । सोमस्य ॥५.३॥
