Mantra with Swara
अ॒यं विष्क॑न्धं सहते॒ ऽयं बा॑ध॒ते अ॒त्त्रिणः॑। अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ॥
अ॒यम् । विऽस्क॑न्धम् । स॒ह॒ते॒ । अ॒यम् । बा॒ध॒ते॒ । अ॒त्त्रिण॑: । अ॒यम् । न॒: । वि॒श्वऽभे॑षज: । ज॒ङ्गि॒ड: । पा॒तु॒ । अंह॑स: ॥४.३॥
Mantra without Swara
अयं विष्कन्धं सहते ऽयं बाधते अत्त्रिणः। अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥
अयम् । विऽस्कन्धम् । सहते । अयम् । बाधते । अत्त्रिण: । अयम् । न: । विश्वऽभेषज: । जङ्गिड: । पातु । अंहस: ॥४.३॥
