Mantra with Swara
सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः। सं धा॒न्य॑स्य॒ या स्फा॒तिः सं॑स्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ॥
सम् । सम् । स्र॒व॒न्तु॒ । प॒शव॑: । सम् । अश्वा॑: । सम् । ऊं॒ इति॑ । पुरु॑षा: । सम् । धा॒न्य᳡स्य । या । स्फा॒ति: । स॒म्ऽस्रा॒व्ये᳡ण । ह॒विषा॑ । जु॒हो॒मि॒ ॥२६.३॥
Mantra without Swara
सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः। सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥
सम् । सम् । स्रवन्तु । पशव: । सम् । अश्वा: । सम् । ऊं इति । पुरुषा: । सम् । धान्यस्य । या । स्फाति: । सम्ऽस्राव्येण । हविषा । जुहोमि ॥२६.३॥
