Mantra 1
तद्यस्यै॒वंवि॒द्वान्व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । एका॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.१॥
Mantra 2
ये पृ॑थि॒व्यांपुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
ये । पृ॒थि॒व्याम् । पुण्या॑: । लो॒का: । तान् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥१३.२॥
Mantra 3
तद्यस्यै॒वंवि॒द्वान्व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । द्वि॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.३॥
Mantra 4
ये॒न्तरि॑क्षे॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥
ये । अ॒न्तरि॑क्षे । पुण्या॑: । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥१३.४॥
Mantra 5
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । तृ॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.५॥
Mantra 6
ये दि॒वि पुण्या॑लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
ये । दि॒वि । पुण्या॑: । लो॒का: । तान् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥१३.६॥
Mantra 7
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । च॒तु॒र्थीम् । रात्रि॑म् । अति॑थि: ॥१३.७॥
Mantra 8
ये पुण्या॑नां॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
ये । पुण्या॑नाम् । पुण्या॑: । लो॒का: । तान् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥१३.८॥
Mantra 9
तद्यस्यै॒वंवि॒द्वान्व्रात्योऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति॥
तत् । तस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । अप॑रिऽमिता: । रात्री॑: । अति॑थि: । गृ॒हे । वस॑ति ॥१३.९॥
Mantra 10
य ए॒वाप॑रिमिताः॒पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
ये । ए॒व । अप॑रिऽमिता: । पुण्या॑: । लो॒का: । तान् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥१३.१०॥
Mantra 11
अथ॒यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
अथ॑ । यस्य॑ । अव्रा॑त्य: । व्रा॒त्य॒ऽध्रु॒व: । ना॒म॒ऽबि॒भ्र॒ती । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१३.११॥
Mantra 12
कर्षे॑देनं॒ नचै॑नं॒ कर्षे॑त् ॥
कर्षे॑त् । ए॒न॒म् । न । च॒ । ए॒न॒म् । कर्षे॑त् ॥१३.१२॥
Mantra 13
अ॒स्यै दे॒वता॑याउद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒परि॑ वेविष्यात् ॥
अ॒स्यै । दे॒वता॑यै । उ॒द॒कम् । या॒चा॒मि॒ । इ॒माम् । दे॒वता॑म् । वा॒स॒ये॒ । इ॒माम् । इ॒माम् । दे॒वता॑म् । परि॑ । वे॒वे॒ष्मि॒ । ए॒न॒म् । परि॑। वे॒वि॒ष्या॒त् ॥१३.१३॥
Mantra 14
तस्या॑मे॒वास्य॒तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥
तस्या॑म् । ए॒व । अ॒स्य॒ । तत् । दे॒वता॑याम् । हु॒तम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.१४॥