Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma)

Yajurveda Adhyay 8 / Mantra 38

63 Mantra
8/38
Devata- राजादयो गृहपतयो देवताः Rishi- वैखानस ऋषिः Chhand- भूरिक् त्रिपाद गायत्री,स्वराट आर्ची अनुष्टुप्,भूरिक् आर्ची अनुष्टुप्, Swara- गान्धारः, षड्जः
Mantra with Swara
अग्ने॒ पव॑स्व॒ स्वपा॑ऽअ॒स्मे वर्चः॑ सु॒वीर्य॑म्। दध॑द्र॒यिं मयि॒ पोष॑म्। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑सऽए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से। अग्ने॑ वर्चस्वि॒न् वर्च॑स्वाँ॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्येषु भूयासम्॥३८॥

अग्ने॑। पव॑स्व। स्वपा॒ इति॑ सु॒ऽअपाः॑। अ॒स्मेऽइत्य॒स्मे। वर्चः॑ सु॒वीर्य्य॒मिति॑ सु॒ऽवीर्य्य॑म्। दध॑त्। र॒यिम्। मयि॑। पोष॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नये॑। त्वा॒। वर्च॑से। ए॒षः। ते॒। योनिः॑। अ॒ग्नये॑। त्वा॒। वर्च॑से। अग्ने॑। व॒र्च॒स्वि॒न्। वर्च॑स्वान्। त्वम्। दे॒वेषु॑। असि॑। वर्च॑स्वान्। अ॒हम्। म॒नु॒ष्ये᳖षु। भू॒या॒स॒म् ॥३८॥

Mantra without Swara
अग्ने पवस्व स्वपा ऽअस्मे वर्चः सुवीर्यम् । दधद्रयिम्मयि पोषम् उपयामगृहीतोस्यग्नये त्वा वर्चसेऽएष ते योनिरग्नये त्वा वर्चसे । अग्ने वर्चस्विन्वर्चस्वाँस्त्वन्देवेष्वसि वर्चस्वानहम्मनुष्येषु भूयासम् ॥

अग्ने। पवस्व। स्वपा इति सुऽअपाः। अस्मेऽइत्यस्मे। वर्चः सुवीर्य्यमिति सुऽवीर्य्यम्। दधत्। रयिम्। मयि। पोषम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अग्नये। त्वा। वर्चसे। एषः। ते। योनिः। अग्नये। त्वा। वर्चसे। अग्ने। वर्चस्विन्। वर्चस्वान्। त्वम्। देवेषु। असि। वर्चस्वान्। अहम्। मनुष्येषु। भूयासम्॥३८॥

Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma)

हिन्दी
Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma) - हिन्दी
Meaning
हे ( अग्ने ) अग्रणी, ज्ञानवन् पुरुष ! तू ( स्वपा: ) शुभ कर्म और ज्ञान से युक्त  हो और (अस्मे ) हमें ( सुवीर्यम् ) उत्तम वीर्य से युक्त( वर्चः ) तेज ( पवस्व ) प्रदान कर। (मिय) मुझ में ( पोषम् ) पुष्टिकारक समृद्धिजनक ( रयिम् ) वीर्य और ऐश्वर्य ( दधत् ) धारण करा । हे पुरुष तू (उपयामगृहीतः असि ) उत्तम राज्यव्यवस्था के वश है। ( अग्नये) अग्नि पद के ( वर्चसे ) तेज के लिये ( त्वा ) तुझको नियत करता हूं । ( ते एषः योनिः ) तेरा यह पद है । ( अग्नये वर्चसे त्वा ) अग्नि के तेजस्वी पद के लिये तुझे स्थापित करता हूँ । हे ( वर्चस्विन् अग्ने ) तेजस्विन्! अपने अग्रणी, विद्वन् ! ( देवेषु ) देवों, विद्वानों और राजाओं के बीच में (त्वं वर्चस्वान् । तू तेजस्वी ( असि ) है । ( अहम् ) मैं ( मनुष्येषु ) मनुष्यों में (वर्चस्वान् भूयासम् ) वर्चस्वी होऊ, अग्नि शब्द से अग्रणी, राजा, विद्वान् आचार्य आदि ग्रहण करने चाहियें ॥ शत० ४ । ५। ४।९॥ 
Subject
अग्नि, आचार्य और नेता का वर्णन।
Footenote
 १ अग्ने॒  २ उ॒पामगृ॑हीतोऽस्य॒ग्नये॑ ३  अग्ने॒ । 
३८ '१' इत्यस्य स्थाने ' अग्ने आयूषि० ' इत्ययं च ( यजु० १९ । ३८ ) 
 पठ्यते । काण्व० । अग्ने वर्चस्वन्० इति काण्व ० ॥ 
Rishi | Devata | Chhanda | Swara
 वैखानस ऋषिः । अग्निर्देवता । (१) भुरिक् त्रिपाद् गायत्री । षड्जः । 
 २ ) स्वराडार्ष्युनुष्टुप् । ( ३ ) भुरिंगार्ष्यनुष्टुप् । गांधारः ॥