Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma)

Yajurveda Adhyay 7 / Mantra 30

48 Mantra
7/30
Devata- प्रजापतिर्देवता Rishi- देवश्रवा ऋषिः Chhand- साम्नी गायत्री,आसुरी अनुष्टुप्,याजुषी पङ्क्ति,आसुरी उष्णिक् Swara- ऋषभः, षड्जः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वोपया॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वोपया॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि नभ॒स्याय त्वोपया॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतोऽस्यू॒र्जे त्वो॑पया॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्याय त्वोपया॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्याय त्वोपया॒मगृ॑हीतोऽस्यꣳहसस्प॒तये॑ त्वा॥३०॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मध॑वे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। माध॑वाय। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। शु॒क्राय॑। त्वा॒। उ॒प॒या॒मऽगृ॑हीतः। अ॒सि॒। शुच॑ये। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। नभ॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। न॒भ॒स्या᳖य। त्वा॒। उ॒पा॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इ॒षे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। ऊ॒र्ज्जे। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। सह॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। स॒ह॒स्या᳖य। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। तप॑से। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। त॒प॒स्या᳖य। त्वा॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ꣳह॒स॒स्प॒तये॑। अ॒ꣳह॒सः॒प॒तय॒ इत्य॑ꣳहसःऽप॒तये॑। त्वा॒ ॥३०॥

Mantra without Swara
उपयामगृहीतोसि मधवे त्वोपयामगृहीतोसि माधवाय त्वोपयामगृहीतोसि शुक्राय त्वोपयामगृहीतोसि शुचये त्वोपयामगृहीतोसि नभसे त्वोपयामगृहीतोसि नभस्याय त्वोपयामगृहीतोसीषे त्वोपयामगृहीतोस्यूर्जे त्वोपयामगृहीतोसि सहसे त्वोपयामगृहीतोसि सहस्याय त्वोपयामगृहीतोसि तपसे त्वोपयामगृहीतोसि तपस्याय त्वोपयामगृहीतो स्यँहसस्पतये त्वा ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। मधवे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। माधवाय। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। शुक्राय। त्वा। उपयामऽगृहीतः। असि। शुचये। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। नभसे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। नभस्याय। त्वा। उपायामगृहीत इत्युपयामऽगृहीतः। असि। इषे। त्वा। उपयामगृहीत इत्युपयामगृहीतः। असि। ऊर्ज्जे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। सहसे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। सहस्याय। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। तपसे। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। तपस्याय। त्वा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अꣳहसस्पतये। अꣳहसःपतय इत्यꣳहसःऽपतये। त्वा॥३०॥

Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma)

हिन्दी
Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma) - हिन्दी
Meaning
 प्रजा राजा के राज्य तन्त्र को संवत्सर रूप से वर्णन करते हैं तदनुसार राज्य के कार्यकर्त्ताओं की नियुक्ति करते हैं । हे योग्य पुरुष ! तू ( उपयामगृहीतः असि ) राज्यव्यवस्था के नियमों द्वारा नियुक्त किया जाता है। ( त्वा मधवे ) तुझे 'मधु' पद के लिये नियुक्त करता हूं । ( त्वा माधवाय ) तुझको 'माधव' पद के लिये नियुक्त करता हूं । (त्वा शुक्राय ) तुझको 'शुक्र' पद के लिये नियुक्त करता हूँ । (त्वा शुचये ) तुझको `शुचि` पद के लिये नियुक्त करता हूं । ( ऊर्जे त्वा) तुझे 'ऊर्ज' पद के लिये नियुक्त करता हूं। (इषे त्वा ) तुझे इष्' पद के लिये नियुक्त करता हूं । ( सहसे त्वा ) तुझे 'सहस्' पद के लिये नियुक्त करता हूं । ( सहस्याय त्वा ) तुझे सहस्य पद के लिये नियुक्त करता हूं । (तपसे वा) तुझे 'तपस्' पद के लिये नियुक्त करता हूँ । ( तपस्याय त्वा) तुझे 'तपस्य` पद के लिये नियुक्त करता हूँ। और ( अंहसस्पतये त्वा ) तुझे 'अंहसस्पति' पद के लिये नियुक्त करता हूं । शतः ४ । ३ । १ । १--२ ॥
 
इस प्रकार राजा अपने अधीन १३ पदाधिकारियों को नियुक्त करता है। और ये १३ पदाधिकारी राजा ही के मुख्य अधिकार के १३ विभाग हैं इसलिये ये १३ हों अधिकार राजा को भी प्राप्त हो जाते हैं । 
जैसे संवत्सर या वर्ष में ६ ऋतुएं और प्रत्येक ऋतु में दो २ मास हैं और १३ वा मलमास है । उसी प्रकार प्रजापति राजा के अधीन ६ सदस्य और प्रत्येक के अधीन दो २ अधिकारी नियुक्त हैं। जिनमें एक सेनानी, दूसरा ग्रामणी अर्थात् एक सेनापति दूसरा नगराध्यक्ष हो । परन्तु ये समस्त अधिकार राजा को भी प्राप्त हैं अतः प्रत्येक ऋतु भी राजा का एक रूपान्तर है । 
 
( १ ) ' मधु माधव' - तस्य ( अग्नेः ) रथगृत्सश्च रथौजाश्च सेनानीग्रामण्यौ इति वासन्तिकौ तावृत्। श० ८ । ६ । १ । १६ ॥ एतौ एवं वासन्तिकौ मासौ । स यद् वसन्ते ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनोहैतौ मधुश्च माधवश्च ॥श० ४ । ३ । १ । १४ ॥  
( २ ) ' शुक्रः ', ' शुचिः` - एतौ ( शुक्रश्च शुचिश्च ) एवं ग्रैष्मौ मासौ । स यदे तयोर्बलिष्ठं तपति तेनाहैतो शुक्रश्च शुचिश्च॥श०  ४ । ३ । ६ । ५॥।तस्य वायोः रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ । इति ग्रैष्मौ तावृतू।श० ८ । ६ । १ । १७ ।। 

( ३ ) 'नमः', 'नभस्यः` – तस्यादित्यस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्यौ इति वार्षिकौ तावृतू श० ८ । ६ । १ । १८ ॥ एतौ ( नभश्च नभस्यश्च ) एव वार्षिकौ मासौ अमुतो वै दिवा वर्षति तेनो हैती नभश्च नभस्यश्च । श० ४ । ३ । १ । १६ ॥ 
( ४ ) 'इषः', ऊर्ज:' एतावेव शारदौ स यच्छरद्यूर्ग्रस ओषधय पच्यन्ते तेनो हैताविषश्चोर्जश्च । श० ४ । ३ । १ । ६ ॥ तस्य तार्क्ष्यश्चारिष्टतेमिश्च सेनानीग्रामण्यौ इति शारदौ तावृतू । श० ८ । ६ । १ । १८ ॥ 
( ५ ) 'सहः । ', ' सहस्यः ।` तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्यौ हेमन्तिकौ तावृतू । श० ८ । ६ । १ । ७ ॥ एतौ एव हेमन्तिकौ स यद् हेमन्त इमाः प्रजा सहसैव स्वं वशमुपनयते तेनोहैतौ सहश्च सहस्यश्च । श० ४ । ३ । १ । १८ ॥ 
( ६ ) तपः', 'तपस्यः '- एतौ एव शैशिरौ स यदेतयोर्बलिष्ठं श्यायति तेनो हैतौ तपश्च तपस्यश्च श० ४ । ३ । १ । १९ ॥ 
संवत्सर के अंशो और प्रजापालक राजा के नियत पदाधिकारी पुरुषों की तुलना को साथ दिये मानचित्र से देखें । 
 
ऋतु नाम      मास नाम    विशेष नाम        पद नाम  सेनानी, ग्रामणी 
१ वसंतः     चैत्र ...         मधुः ...      रथगृत्सः    सेनानी : ...  
     वैशाख...         माधवः...     रथौजा...     ग्रामणीः 
           
२ ग्रीष्मः     ज्येष्ठः ...    शुक्रः ...            रथस्वनः   सेनानीः ...  
          आषाढ़: ...        शुचिः...            रथेचित्रः   ग्रामणीः ...
            
३ वर्षा:      श्रावणः ...    नभः ...    रथप्रोतः    सेनानी: ...
      भाद्रः   ...    नभस्यः ...       असमरथः  ग्रामणीः ... 

४ शरद्      आश्विनः (कुमारः )इषः            तार्क्ष्य: ...   सेनानीः ...  
     कार्तिकः ...   ऊर्जः ...      अरिष्टनेमिः  ग्रामणीः ... 

५ हेमन्तः     मार्गशीषः ... सहः ...         सेनजित्...   सेनानीः ... 
    पौषः ...     सहस्यः ...       सुषेणः ...       ग्रामणीः ... 
 
६ शिशिरः  माघः ...     तपः ....          .......        .......
     फाल्गुनः ..  तपस्य....           .......        .......
  
७ ...     मलमास: ... अहंसस्पतिः       .......        .......

        
अप्सरा नाम,संकेत   हेतिः, प्रहेतिः     दिशा      नेतारौ     

 पुंजिकस्थला. सेना  दंक्ष्णुपशुः    हेतिः      पूर्वा        अग्नि    
 क्रतुस्थला. समितिः  पौरुषेयवधः प्रहेतिः           हरिकेशः    
 
मेनका..  द्यौः ...    यातुधानाः  हेतिः    दक्षिणा       विश्वकर्मा 
सहजन्या पृथिवी    रक्षांसि     प्रहेतिः           वायुः 
 
प्रम्लोचन्ती    अहः     व्याघ्राः   हेतिः    पश्चिमा      विश्वव्यचाः 
अनुम्लोचन्ती  रात्रीः    सर्पाः    प्रहेतिः           आदित्यः

विश्वाची   वेदिः     आपः    हेतिः    उत्तरा       संयद्वसुः     
घृताची   स्रुक्      वातः    प्रहेतिः            यज्ञः 

उर्वशी   आहुतिः    अवस्फूर्जन् .....    उपरि      अर्वाग्वसुः 
पूर्वचित्ती दक्षिणा      विद्युत .....               पर्जन्यः     
 
......       ......      ......  ....             अधः        .........
.......      .......      ......  ....             मध्यम्       ........ 
Subject
संवत्सर के ऋतु, मासों की तुलना से राज्य पद विभाग वर्णन।
Footenote
१ उपयाम। २ पयामगृहीतोऽसि। ३  पयामगृहीतोऽसि। ४  पयामगृहीतोऽसि। ५  पयामगृहीतोऽसि। ६  पयामगृहीतोऽसि। ७  पयामगृहीतोऽसि। ८  पयामगृहीतोऽसि। ९  पयामगृहीतोऽसि। १०  पयामगृहीतोऽसि। ११  पयामगृहीतोऽसि। १२  पयामगृहीतोऽसि। १३  पयामगृहीतोऽसि। 
Rishi | Devata | Chhanda | Swara
जापतिर्ऋषिः । ( १, ३ - ५, ६, ११ ) साम्न्यो गायत्र्यः । षड्जः । ( 2 ) 
आसुर्यनुष्टुप् । ( ३-५ ) साम्नीगायत्री । प्रजापतिर्ऋषिः । (१,३-५, ६, ११ ) समन्यो गायत्र्यः । षड्जः । ( २, ६, १०, १२ ) आसूर्योऽनुष्टुभः । गांधारः । ७, ८, यागुष्यौ पंक्ती । पञ्चमः । १३ आसुर्युष्णिक् । ऋषभः ॥