Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma)

Yajurveda Adhyay 31 / Mantra 17

22 Mantra
31/17
Devata- आदित्यो देवता Rishi- उत्तरनारायण ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒द्भ्यः सम्भृ॑तः पृथि॒व्यै रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त्त॒ताग्रे॑।तस्य॒ त्वष्टा॑ वि॒दध॑द् रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑॥१७॥

अ॒द्भ्य इत्य॒त्ऽभ्यः। सम्भृ॑त॒ इति॑ सम्ऽभृ॑तः। पृ॒थि॒व्यै। रसा॑त्। च॒। वि॒श्वक॑र्मण॒ इति॑ वि॒श्वऽक॑र्मणः। सम्। अ॒व॒र्त्त॒त॒। अग्रे॑ ॥ तस्य॑। त्वष्टा॑। विदध॑दिति॑ वि॒ऽदध॑त्। रू॒पम्। ए॒ति॒। तत्। मर्त्य॑स्य। दे॒व॒त्वमिति॑ देव॒ऽत्वम्। आ॒जान॒मित्या॒ऽजान॑म्। अग्रे॑ ॥१७ ॥

Mantra without Swara
अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे । तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥

अद्भय इत्यत्ऽभ्यः। सम्भृत इति सम्ऽभृतः। पृथिव्यै। रसात्। च। विश्वकर्मण इति विश्वऽकर्मणः। सम्। अवर्त्तत। अग्रे॥ तस्य। त्वष्टा। विदधदिति विऽदधत्। रूपम्। एति। तत्। मर्त्यस्य। देवत्वमिति देवऽत्वम्। आजानमित्याऽजानम्। अग्रे॥१७॥

Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma)

हिन्दी
Yajurveda Sanhita Bhasha Bhashya (Pt. Jaydev Sharma) - हिन्दी
Meaning
(अद्भ्यः) जलों से और (पृथिव्यै) पृथिवी, (विश्वकर्मण:) समस्त संसार के कर्ता परमेश्वर के ( रसात् ) प्रेरक बल से (अग्ने) सब से प्रथम जो ब्रह्माण्ड (सम् अवत्तत) उत्पन्न हुआ । (त्वष्टा) वह विधाता ही (तस्य) उसके ( रूपम् ) रूप को ( विदधत् ) स्वयं विविध रूपों से धारण करता हुआ (एति) प्राप्त होता है । ( मर्त्यस्य) मरणधर्मा पुरुष के ( तत् ) उस (आजानम् ) समस्त जनों के करने योग्य कर्म और ( देवत्वम् ) दर्शन करने योग्य ज्ञान को (अग्रे) सबसे पूर्व (एति) स्वयं प्राप्त करता है । जल और पृथिवी से विश्वकर्मा जगत् स्रष्टा ने उसको बनाया स्वयं बनाने वाला 'त्वष्टा' तदनुरूप हो गया । यही उस (मर्त्यस्य ) मरणधर्मा विनाशी पदार्थ का भी (अग्रे) पहले से ही (आजानम् देवत्वम् ) जन्म से ही देव रूप है । वह स्वतः ईश्वर की दिव्य शक्ति का स्वरूप है ।
‘देवत्वम्, आजानम्’—मर्त्ये देवत्वं प्रभुत्वं, आजानम् आप्तम् इत्यर्थः ( उवट: ) । पुरुषस्य विराडाख्यस्य सम्बन्धि, तत् विश्वं प्रसिद्धं देव- मनुष्यादिरूपं सर्व जगत् अग्रे सृष्ट्यादौ आजानं सर्वतः उत्पन्नम् । इति सायणः ॥ देवत्वम् विद्वत्वम् | आजानं समन्तात् जनानां मनुष्याणामिदं कर्तव्यं कर्म इति दयानन्दः । आजानदेवत्वं, मुख्यं देवत्वम् । द्विविधा देवाः । कर्मदेवा आजानदेवाश्च । उत्कृष्टेन कर्मणा देवत्वं प्राप्ताः कर्मदेवाः । सृष्ट्यादावुत्पन्ना आजानदेवाः । ते कर्मदेवेभ्यः श्रेष्ठाः । ये शतं कर्मदेवाना- मानन्दाःस एक आजानदेवानामानन्दः । तै० । उप० । इति श्रुतेः सूर्यादय आजानदेवाः ॥ इति महीधरः ।
Subject
मानुष जीव सर्ग ।
Rishi | Devata | Chhanda | Swara
आदित्यः । भुरिक् त्रिष्टुप् । धैवतः ॥