Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 6

40 Mantra
9/6
Devata- अश्वो देवता Rishi- बृहस्पतिर्ऋषिः Chhand- भूरिक जगती, Swara- निषादः
Mantra with Swara
अ॒प्स्वन्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिनः॑। देवी॑रापो॒ यो व॑ऽऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाज॑ꣳ सेत्॥६॥

अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। अ॒मृत॑म्। अ॒प्स्वित्य॒प्ऽसु। भे॒ष॒जम्। अ॒पाम्। उ॒त। प्रश॑स्ति॒ष्विति॒ प्रऽश॑स्तिषु। अश्वाः॑। भव॑त। वा॒जिनः॑। देवीः॑। आ॒पः॒। यः। वः॒। ऊ॒र्मिः। प्रतू॑र्त्तिरिति॒ प्रऽतू॑र्त्तिः। क॒कुन्मा॒निति॑ क॒कुत्ऽमा॑न्। वा॒ज॒सा इति॑ वाज॒ऽसाः। तेन॑। अ॒यम्। वाज॑म्। से॒त् ॥६॥

Mantra without Swara
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवत वाजिनः । देवीरापो यो वऽऊर्मिः प्रतूर्तिः ककुन्मान्वाजसास्तेनायं वाजँ सेत् ॥

अप्स्वित्यप्ऽसु। अन्तः। अमृतम्। अप्स्वित्यप्ऽसु। भेषजम्। अपाम्। उत। प्रशस्तिष्विति प्रऽशस्तिषु। अश्वाः। भवत। वाजिनः। देवीः। आपः। यः। वः। ऊर्मिः। प्रतूर्त्तिरिति प्रऽतूर्त्तिः। ककुन्मानिति ककुत्ऽमान्। वाजसा इति वाजऽसाः। तेन। अयम्। वाजम्। सेत्॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अप्सु) प्राणेषु (अन्तः) मध्ये (अमृतम्) मरणधर्मरहितं कारणमल्पमृत्युनिवारकं वा (अप्सु) जलेषु (भेषजम्) रोगनाशकमौषधम् (अपाम्) उक्तानाम् (उत) अपि (प्रशस्तिषु) गुणानां प्रशंसासु (अश्वाः) वेगवन्तः (भवत) (वाजिनः) वाजः प्रशस्तः पराक्रमो बलं वा येषां ते (देवीः) दिव्यगुणाः (आपः) अन्तरिक्षे व्याप्तिशीलाः (यः) (वः) युष्माकम् (ऊर्मिः) आच्छादकस्तरङ्गः (प्रतूर्त्तिः) प्रकृष्टा तूर्णगतिर्यस्य सः (ककुन्मान्) प्रशस्ताः ककुतः लौल्या गुणा विद्यन्ते यस्मिन्। अत्र ककधातोरौणदिक उतिः। (उणा॰१।९४) (वाजसाः) वाजान् सङ्ग्रामान् सनन्ति संभजन्ति येन सः (तेन) (अयम्) सेनापतिः (वाजम्) सङ्ग्राममन्नं च (सेत्) संबध्नीयात्। अयं मन्त्रः (शत॰५। १। ४। ६) व्याख्यातः॥६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। स्त्रियः सागर इव गम्भीरा जलमिव शान्तस्वभावा वीरप्रसवाः सदौषधसेविन्यो जलादिपदार्थाभिज्ञाः स्युरेवं ये पुरुषा वायुजलवेतृभिः सह सम्प्रयुञ्जते, तास्ते चारोगाः सन्तो विजयिनश्च स्युः॥६॥
Subject
पुनः स्त्रीपुरुषैः कथं भवितव्यमित्याह॥
Anvaya
हे देवीरापो देवा विद्वांसश्व यूयं यो वः समुद्रस्य ककुन्मान् वाजसाः प्रतूर्तिरूर्मिरिव पराक्रमोऽस्ति, यदप्स्वन्तरमृतमप्सु भेषजं चास्ति, येनायं वाजं सेत्, तेनाऽपां प्रशस्तिषु वाजिनोऽश्वा इव भवत॥६॥