Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 5

40 Mantra
9/5
Devata- सविता देवता Rishi- बृहस्पतिर्ऋषिः Chhand- भूरिक अष्टि, Swara- मध्यमः
Mantra with Swara
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाज॑ꣳ सेत्। वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत्॥५॥

इन्द्र॑स्य। वज्रः॑। अ॒सि॒। वा॒ज॒सा इति॑ वाज॒ऽसाः। त्वया॑। अ॒यम्। वाज॑म्। से॒त्। वाज॑स्य। नु। प्र॒स॒व इति॑ प्रऽस॒वे। मा॒तर॑म्। म॒हीम्। अदि॑तिम्। नाम॑। वचसा॑। क॒रा॒म॒हे॒। यस्या॑म्। इ॒दम्। विश्व॑म्। भुव॑नम्। आ॒वि॒वेशत्या॑ऽवि॒वेश॑। तस्या॑म्। नः॒। दे॒वः। स॒वि॒ता। धर्म॑। सा॒वि॒ष॒त् ॥५॥

Mantra without Swara
इन्द्रस्य वज्रोसि वाजसास्त्वयायँ सेत् । वाजस्य नु प्रसवे मातरम्महीमदितिन्नाम वचसा करामहे । यस्यामिदँ विश्वं भुवनमाविवेश तस्यान्नो देवः सविता धर्म साविषत् ॥

इन्द्रस्य। वज्रः। असि। वाजसा इति वाजऽसाः। त्वया। अयम्। वाजम्। सेत्। वाजस्य। नु। प्रसव इति प्रऽसवे। मातरम्। महीम्। अदितिम्। नाम। वचसा। करामहे। यस्याम्। इदम्। विश्वम्। भुवनम्। आविवेशत्याऽविवेश। तस्याम्। नः। देवः। सविता। धर्म। साविषत्॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रस्य) परमैश्वर्य्ययुक्तस्य राज्ञः पुरुषः (वज्रः) वज्र इव शत्रुच्छेदकः (असि) भवसि (वाजसाः) यो वाजान् सङ्ग्रामान् विभजति सः (त्वया) रक्षकेण सेनापतिना सह (अयम्) जनः (वाजम्) सङ्ग्रामम् (सेत्) सिनुयात्, अत्र सिञ् बन्धन इत्यस्माल्लङि विकरणलुग[भावश्च (वाजस्य) सङ्ग्रामस्य (नु) क्षिप्रम् (प्रसवे) ऐश्वर्य्ये (मातरम्) मान्यप्रदाम् (महीम्) पृथिवीम् (अदितिम्) अखण्डिताम् (नाम) प्रसिद्धौ (वचसा) वेदोक्तन्यायोपदेशकवचनेन (करामहे) कुर्य्याम, अत्र लेटि व्यत्ययेन शप् अथवा भ्वादिर्मन्तव्यः (यस्याम्) पृथिव्याम् (इदम्) प्रत्ययालम्बनम् (विश्वम्) सर्वम् (भुवनम्) जगत् (आविवेश) आविष्टमस्ति (तस्याम्) (नः) अस्माकम् (देवः) सर्वप्रकाशकः (सविता) सकलजगदुत्पादकः (धर्म) धारणम् (साविषत्) सवेत्। अत्र सिब्बहुलं णिद॰। (अष्टा॰भा॰वा॰३।१।३४) इति सिपि वृद्धिः। अयं मन्त्रः (शत॰५। १। ४। ३-४) व्याख्यातः॥५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! येयं भूमिर्भूतानां सौभाग्यजननी मातृवत् पालिकाऽऽधारभूता प्रसिद्धास्ति, तां विद्यान्यायधर्मयोगेन राज्याय यूयं सेवध्वम्॥५॥
Subject
अथ किमर्थः सेनापतिरत्र प्रार्थनीय इत्याह॥
Anvaya
हे वीर! यस्यां त्वमिन्द्रस्य वाजसा वज्रोऽसि, तेन त्वया सहाऽयं वाजं सेद्, यत्रेदं विश्वं भुवनमाविवेमश यत्र देवः सविता नो धर्म साविषत्, तस्यां नाम वाजस्य प्रसवे मातरमदितिं महीं वचसा नु करामहे॥५॥