Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 36

40 Mantra
9/36
Devata- विश्वेदेवा देवताः Rishi- वरुण ऋषिः Chhand- विकृति Swara- मध्यमः
Mantra with Swara
ये दे॒वाऽअ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षिणा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वाः सोम॑नेत्राऽउपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑॥३६॥

ये। दे॒वाः। अग्निने॑त्रा॒ इत्य॑ग्निऽने॑त्राः। पु॒रः॒सद॒ इति॑ पु॒रः॒ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। य॒मने॑त्रा॒ इति॑ य॒मऽने॑त्राः। द॒क्षि॒णा॒सद॒ इति॑ दक्षिणा॒ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। वि॒श्वदे॑वनेत्रा॒ इति॑ वि॒श्वदे॑वऽनेत्राः। प॒श्चात्सद॒ इति॑ पश्चा॒त्ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। मि॒त्रावरु॑णनेत्रा॒ इति॑ मि॒त्रावरु॑णऽनेत्राः। वा॒। म॒रुन्ने॑त्रा॒ इति॑ म॒रुत्ऽने॑त्राः। वा॒। उ॒त्त॒रा॒सद॒ इत्यु॑त्तरा॒ऽसदः॑। तेभ्यः॑। स्वाहा॑। ये। दे॒वाः। सोम॑नेत्रा॒ इति सोम॑ऽनेत्राः। उ॒प॒रि॒सद॒ इत्यु॑परि॒ऽसदः॑। दुव॑स्वन्तः। तेभ्यः॑। स्वाहा॑ ॥३६॥

Mantra without Swara
ये देवाऽअग्निनेत्राः पुरःसदस्तेभ्यः स्वाहा ये देवा यमनेत्रा दक्षिणासदस्तेभ्यः स्वाहा ये देवा विश्वदेवनेत्राः पश्चात्सदस्तेभ्यः स्वाहा ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस्तेभ्यः स्वाहा ये देवाः सोमनेत्रा ऽउपरिसदो दुवस्वन्तस्तेभ्यः स्वाहा ॥

ये। देवाः। अग्निनेत्रा इत्यग्निऽनेत्राः। पुरःसद इति पुरःऽसदः। तेभ्यः। स्वाहा। ये। देवाः। यमनेत्रा इति यमऽनेत्राः। दक्षिणासद इति दक्षिणाऽसदः। तेभ्यः। स्वाहा। ये। देवाः। विश्वदेवनेत्रा इति विश्वदेवऽनेत्राः। पश्चात्सद इति पश्चात्ऽसदः। तेभ्यः। स्वाहा। ये। देवाः। मित्रावरुणनेत्रा इति मित्रावरुणऽनेत्राः। वा। मरुन्नेत्रा इति मरुत्ऽनेत्राः। वा। उत्तरासद इत्युत्तराऽसदः। तेभ्यः। स्वाहा। ये। देवाः। सोमनेत्रा इति सोमऽनेत्राः। उपरिसद इत्युपरिऽसदः। दुवस्वन्तः। तेभ्यः। स्वाहा॥३६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ये) (देवाः) विद्वांसः (अग्निनेत्राः) अग्नौ विद्युदादौ नेत्रं नयनं विज्ञानं येषां ते (पुरःसदः) ये सभायां राष्ट्रे वा पुरः पूर्वस्यां दिशि सीदन्ति (तेभ्यः) (स्वाहा) सत्यां वाचम् (ये) (देवाः) योगिनो न्यायाधीशाः (यमनेत्राः) यमेष्वहिंसादिषु योगाङ्गेषु नीतिषु वा नेत्रं प्रापणं येषां ते (दक्षिणासदः) ये दक्षिणस्यां दिश्यवतिष्ठन्ते (तेभ्यः) (स्वाहा) सत्यां क्रियाम् (ये) (देवाः) सर्वविद्याविदः (विश्वदेवनेत्राः) विश्वेषु देवेषु नेत्रं प्रज्ञानं येषां ते (पश्चात्सदः) ये पश्चिमायां दिशि सीदन्ति (तेभ्यः) (स्वाहा) आन्वीक्षिकीं विद्यां (ये) (देवाः) सर्वेभ्यः सुखदातारः (मित्रावरुणनेत्राः) प्राणोदानवत्सर्वान् धर्म्मं नयन्तः (वा) (मरुन्नेत्राः) मरुति ब्रह्माण्डस्थे वायौ नेत्रं नयनं येषां ते (वा) अध ऊर्ध्वस्थाः (उत्तरासदः) ये प्रश्नोत्तराणि समादधाना उत्तरस्यां दिशि सीदन्ति (तेभ्यः) (स्वाहा) सर्वोपकारिणीं विद्याम् (ये) (देवाः) आयुर्वेदविदः (सोमनेत्राः) सोमलतादिष्वोषधीषु नेत्रं नयनं येषां ते (उपरिसदः) ये उपरि उत्कृष्ट आसने व्यवहारे वा सीदन्ति ते (दुवस्वन्तः) दुवो बहुविद्याधर्मपरिचरणं विद्यते येषु (तेभ्यः) (स्वाहा) धर्मौषधिविद्याम्। अयं मन्त्रः (शत॰५। २। ४। ६) व्याख्यातः॥३६॥
Essence
हे राजादयो मनुष्याः! यूयं यदा धार्मिकाः सुशीला विद्वांसो भूत्वा सर्वदिक्स्थानां सर्वविद्याविदामाप्तानां विदुषां परीक्षासत्करार्थं सर्वा विद्याः प्राप्नुयात, तदैते भवत्समीपमागत्य युष्माभिः सह सङ्गत्य धर्मार्थकाममोक्षाणां सिद्धिं कुर्युः। ये देशदेशान्तरं द्वीपद्वीपान्तरं विद्याविनयसुशिक्षाक्रियाकौशलानि गृह्णन्ति त एव सर्वेषां सुसुखैरलङ्कर्त्तारः स्युः॥३६॥
Subject
मनुष्याः सर्वत्र भ्रमणं विधाय विद्या गृह्णीयुरित्युपदिश्यते॥
Anvaya
हे सभाध्यक्षराजँस्त्वं येऽग्निनेत्राः पुरःसदो देवा सन्ति, तेभ्यः स्वाहा जुषस्व। ये यमनेत्रा दक्षिणासदो देवाः सन्ति, तेभ्यः स्वाहा जुषस्व। ये पश्चात्सदो विश्वदेवनेत्रा देवाः सन्ति, तेभ्यः स्वाहा जुषस्व। ये उत्तरासदो वाऽध ऊर्ध्वस्था मित्रावरुणनेत्रा वा मरुन्नेत्रा देवाः सन्ति, तेभ्यः स्वाहा जुषस्व। ये उपरिसदो दुवस्वन्तः सोमनेत्रा देवाः सन्ति, तेभ्यः स्वाहा जुषस्व॥३६॥