Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 3

40 Mantra
9/3
Devata- सम्राड् देवता Rishi- तापस ऋषिः Chhand- निचृत् अति शक्वरी, Swara- पञ्चमः
Mantra with Swara
अ॒पा रस॒मुद्व॑यस॒ꣳ सूर्ये॒ सन्त॑ꣳ स॒माहि॑तम्। अ॒पा रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममु॑पया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्॥३॥

अ॒पाम्। रस॑म्। उद्व॑यस॒मित्युत्ऽवय॑सम्। सूर्ये॑। सन्त॑म्। स॒माहि॑त॒मिति॑ स॒म्ऽआहि॑तम्। अ॒पाम्। रस॑स्य। यः। रसः॑। तम्। वः॒। गृ॒ह्णा॒मि॒। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम् ॥३॥

Mantra without Swara
अपाँ रसमुद्वयसँ सूर्ये सन्तँ समाहितम् अपाँ रसस्य यो रसस्तँवो गृह्णाम्युत्तममुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥

अपाम्। रसम्। उद्वयसमित्युत्ऽवयसम्। सूर्ये। सन्तम्। समाहितमिति सम्ऽआहितम्। अपाम्। रसस्य। यः। रसः। तम्। वः। गृह्णामि। उत्तममित्युत्ऽतमम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्॥३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अपाम्) जलानाम् (रसम्) सारम् (उद्वयसम्) उत्कृष्टं वयो जीवनं यस्मात् तम् (सूर्य्ये) सवितृप्रकाशे (सन्तम्) वर्त्तमानम् (समाहितम्) सम्यक् सर्वतो धृतम् (अपाम्) जलानाम् (रसस्य) सारस्य (यः) (रसः) वीर्य्यं धातुः (तम्) (वः) युष्मभ्यम् (गृह्णामि) (उत्तमम्) श्रेयांसम् (उपयामगृहीतः) साधनोपसाधनैः स्वीकृतः (असि) (इन्द्राय) परमेश्वराय (त्वा) (जुष्टम्) प्रीत्या वर्त्तमानम् (गृह्णामि) स्वीकरोमि (एषः) (ते) तव (योनिः) गृहम् (इन्द्राय) परमैश्वर्य्याय (त्वा) (जुष्टतमम्)। अयं मन्त्रः (शत॰५। १। २। ७) व्याख्यातः॥३॥
Essence
राजा स्वभृत्यप्रजाजनान् शरीरात्मबलवर्धनाय ब्रह्मचर्य्याौषधविद्यायोगाभ्याससेवने नियुञ्जीत, यतः सर्वे रोगरहिताः सन्तः पुरुषार्थिनः स्युः॥३॥
Subject
पुनः प्रजाजनैः कथंभूतो जनो राजा माननीय इत्युपदिश्यते॥
Anvaya
हे राजन्नहमिन्द्राय वः सूर्य्ये सन्तं समाहितमुद्वयसमपां रसं गृह्णामि। योऽपां रसस्य रसस्तमुत्तमं वो गृह्णामि, यस्यैष ते योनिरस्ति तमिन्द्राय जुष्टतमं त्वा गृह्णामि॥३॥