Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 24

40 Mantra
9/24
Devata- प्रजापतिर्देवता Rishi- वसिष्ठ ऋषिः Chhand- जगती, Swara- निषादः
Mantra with Swara
वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट्। अदि॑त्सन्तं दापयति प्रजा॒नन्त्स नो॑ र॒यिꣳ सर्व॑वीरं॒ निय॑च्छतु॒ स्वाहा॑॥२४॥

वाज॑स्य। इ॒माम्। प्र॒स॒व इति॑ प्रऽस॒वः। शि॒श्रि॒ये॒। दिव॑म्। इ॒मा। च॒। विश्वा॑। भुव॑नानि। स॒म्राडिति॑ स॒म्ऽराट्। अदि॑त्सन्तम्। दा॒प॒य॒ति॒। प्र॒जा॒नन्निति॑ प्रऽजा॒नन्। सः। नः॒। र॒यिम्। सर्ववीर॒मिति॒ सर्व॑ऽवीर॒म्। नि। य॒च्छ॒तु॒। स्वाहा॑ ॥२४॥

Mantra without Swara
वाजस्येमां प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् । अदित्सन्तन्दापयति प्रजानन्स नो रयिँ सर्ववीरन्नि यच्छतु स्वाहा ॥

वाजस्य। इमाम्। प्रसव इति प्रऽसवः। शिश्रिये। दिवम्। इमा। च। विश्वा। भुवनानि। सम्राडिति सम्ऽराट्। अदित्सन्तम्। दापयति। प्रजानन्निति प्रऽजानन्। सः। नः। रयिम्। सर्ववीरमिति सर्वऽवीरम्। नि। यच्छतु। स्वाहा॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वाजस्य) राज्यस्य (इमाम्) भूमिम् (प्रसवः) प्रसूताः (शिश्रिये) समाश्रये (दिवम्) देदीप्यमानां राजनीतिम् (इमा) इमानि (च) (विश्वा) सर्वाणि (भुवनानि) गृहाणि (सम्राट्) यो राजधर्मे सम्यग्राजते सः (अदित्सन्तम्) राजकरं दातुमनिच्छन्तम् (दापयति) (प्रजानन्) प्रज्ञावान् सन् (सः) (नः) अस्माकं प्रजास्थानाम् (रयिम्) धनम् (सर्ववीरम्) सर्वे वीरा यस्मात्तत् (नि) नितराम् (यच्छतु) गृह्णातु (स्वाहा) धर्म्यया वाचा। अयं मन्त्रः (शत॰ (५। २। २। ६) व्याख्यातः॥२४॥
Essence
हे मनुष्याः! यो मूलस्य राज्यस्य मध्ये सनातनीं राजनीतिं विदित्वा राज्यं संरक्षितुं शक्नुयात्, तमेव चक्रवर्तिनं राजानं कुरुत। यः करस्यादातुः करं दापयेत्, सोऽमात्यो भवितुमर्हेत। यः शत्रून् निग्रहीतुं शक्नुयात्, तं सेनापतिं कुरुत। यो विद्वान् धार्मिको भवेत् तं न्यायाधीशं कोशाध्यक्षं वा कुरुत॥२४॥
Subject
राजा किमाश्रित्य केन किं कुर्य्यादित्युपदिश्यते॥
Anvaya
हे मनुष्याः! यथा वाजस्य मध्ये प्रसवः सम्राडहमिमां दिवमिमा विश्वा भुवनानि च शिश्रिये, तथा यूयमप्येनमेतानि चाश्रयत। यः स्वाहा प्रजानन्नदित्सन्तं दापयति, स नः सर्ववीरं रयिं नियच्छतु॥२४॥