Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 9 / Mantra 19

40 Mantra
9/19
Devata- प्रजापतिर्देवता Rishi- वसिष्ठ ऋषिः Chhand- निचृत् धृति, Swara- ऋषभः
Mantra with Swara
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे। आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ऽअमृत॒त्त्वेन॑ गम्यात्। वाजि॑नो वाजजितो॒ वाज॑ꣳ ससृ॒वासो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः॥१९॥

आ। मा॒। वाज॑स्य। प्र॒स॒व इति॑ प्रऽस॒वः। ज॒ग॒म्या॒त्। आ। इ॒मेऽइती॒मे। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। वि॒श्वरू॑पे॒ऽइति॑ वि॒श्वऽरू॑पे। आ। मा॒। ग॒न्ता॒म्। पि॒तरा॑मा॒तरा॑। च॒। आ। मा॒। सोमः॑। अ॒मृ॒त॒त्वेनेत्य॑मृ॒तऽत्वेन॑। ग॒म्या॒त्। वाजि॑नः। वा॒ज॒जित॒ इति॑ वाजऽजितः। वाज॑म्। स॒सृ॒वास॒ इति॑ ससृ॒वासः॑। बृह॒स्पतेः॑। भा॒गम्। अव॑। जि॒घ्र॒त॒। नि॒मृ॒जा॒ना इति॑ निऽमृजा॒नाः ॥१९॥

Mantra without Swara
आ मा वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे । आ मा गन्ताम्पितरा मातरा चा मा सोमो ऽअमृतत्वेन गम्यात् । वाजिनो वाजजितो वाजँ ससृवाँसो बृहस्पतेर्भागमव जिघ्रत निमृजानाः ॥

आ। मा। वाजस्य। प्रसव इति प्रऽसवः। जगम्यात्। आ। इमेऽइतीमे। द्यावापृथिवीऽइति द्यावापृथिवी। विश्वरूपेऽइति विश्वऽरूपे। आ। मा। गन्ताम्। पितरामातरा। च। आ। मा। सोमः। अमृतत्वेनेत्यमृतऽत्वेन। गम्यात्। वाजिनः। वाजजित इति वाजऽजितः। वाजम्। ससृवास इति ससृवासः। बृहस्पतेः। भागम्। अव। जिघ्रत। निमृजाना इति निऽमृजानाः॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) (मा) माम् (वाजस्य) वेदादिशास्त्रार्थप्रसूतज्ञानबोधस्य (प्रसवः) प्रकृष्टैश्वर्य्यसमूहः (जगम्यात्) भृशं प्राप्नुयात् (आ) (इमे) (द्यावापृथिवी) प्रकाशभूमी राज्यार्थे (विश्वरूपम्) विश्वानि सर्वाणि रूपाणि ययोस्ते (आ) (मा) माम् (गन्ताम्) प्राप्नुतः, अत्र विकरणलुक् (पितरामातरा) पिता च माता च ते, अत्र पितरामातरा च च्छन्दसि। (अष्टा॰६।३।३३) इति पूर्वपदस्याऽनङ्, उत्तरपदस्याऽकारादेशश्च निपात्यते (च) सुसहायः (आ) (मा) माम् (सोमः) सोमवल्ल्याद्योषधिगणः (अमृतत्वेन) सर्वरोगनिवारकत्वेन सह (गम्यात्) प्राप्नुयात् (वाजिनः) प्रशस्तबलिनः (वाजजितः) विजितसङ्ग्रामः (वाजम्) सङ्ग्रामम् (ससृवांसः) प्राप्तवन्तः (बृहस्पतेः) बृहत्याः सेनायाः स्वामिनः (भागम्) भजनीयम् (अव) (जिघ्रत) (निमृजानः) नितरां शुन्धन्तः। अयं मन्त्रः (शत॰५। १। ५। २६-२७) व्याख्यातः॥१९॥
Essence
ये मनुष्या विद्वत्सङ्गेन विद्यासुशिक्षे प्राप्य धर्ममाचरन्ति, तानिहामुत्र परमैश्वर्य्यसाधकं राज्यम्, विद्वांसौ मातापितरौ, रोगराहित्यं च प्राप्नोति। ये विदुषां सेवनं कुर्वन्ति, ते शरीरात्मबलं प्राप्ताः सन्तः सर्वाणि सुखानि प्राप्नुवन्ति, नातो विरुद्धाचरणा एतत्सर्वमाप्तुं शक्नुवन्ति॥१९॥
Subject
मनुष्यैर्धर्माचरणेन किं किमेष्टव्यमित्याह॥
Anvaya
हे पूर्वोक्ता विद्वांसः! येषां भवतां सहायेन वाजस्य प्रसवो मा जगम्यात् समन्तात् प्राप्नुयादिमे विश्वरूपे द्यावापृथिवी चामृतत्वेन सोमो गम्यात्। पितरामातरा चागन्ताम्॥ ते वाजिनो वाजजितो वाजं ससृवांसो निमृजानाः सन्तो यूयं बृहपस्तेर्भागमवजिघ्रत॥१९॥